शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञम् अपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलायाः ढञ् प्रत्ययो भवति। शैलेयम्। ततो धः। शिलेयम्।
शिलाया ढः। इवे इत्येव। शिलेव शिलेयमिति। "दध्यादी"ति शेषः। योगेति। "शिलाया" इत्येको योगः। ढञित्यनुवर्तते, इवे इति च। शैलेयमिति। ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम्। "ढः" इति द्वितीयो योगः। शिलाया इत्यनुवर्तते। उक्तोऽर्थः।