द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरणे इत्यस्मिन् विषये। डटो ऽपवादः। द्व्योः पूरणः द्वितीयः।
"द्विशब्दात्? तीयप्रत्ययो भवति" इति।
अथ द्विशब्दादुत्तरस्य डटस्तीयादेशः कस्मादेव न भवति? ज्ञापकत्वात्()।
यदयम्? "कर्मणि द्वितीया"
२।३।२ इति टापा निर्देशं करोति, तज्ज्ञापयति--नायमादेश इति।
यद्येवमनेनैव सिद्धत्वात्? प्रत्ययविधानमनर्थकम्()? न; स्वरार्थत्वात्()। निपातनाद्धि प्रातिपदिकस्वरेणान्तोदात्तः स्यात्()। तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति। किञ्च, यदि प्रत्ययो न विधीयते "बाधकान्यपि निपातनानि भवन्ति" (नी।प।बृ। १०९) इति डडपि स्यात्()। यदि पुनरयं डडादेशः स्यात्(),
तर्हि किं स्यात्()? डट्स्वरेण तीयशब्दोऽन्तोदात्तः स्यात्(), स्त्रियां च टित्त्वान्डीप्(), ततश्च द्वितीयेति निर्देशो नोपपद्यते॥