सूत्रम्
द्वंद्वोपतापगर्ह्यात् प्राणिस्थादिनिः॥ ५।२।१२७
काशिका-वृत्तिः
द्वन्द्वौपतापगर्ह्यात् प्राणिस्थादिनिः ५।२।१२८
द्वन्द्वः समासः। उपतापो रोगः। गर्ह्यं निन्द्यम्। तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्यः इनिः प्रत्ययो भवति मत्वर्थे। द्वन्द्वात् तावत् कटकवलयिनी। शङ्खनूपुरिणी। उपतापात् कुष्ठी। किलासी। गर्ह्यात् ककुदावर्ती। काकतालुकी। प्राणिस्थातिति किम्? पुष्पफलवान् वृक्षः। प्राण्यङ्गान्नेष्यते, पाणिपादवती। अतः इति अनुवर्तते। तेन इह नि भवति, चित्रललाटिकावती। सिद्धे प्रत्यये पुनर् वचनं ठनादिबाधनार्थम्।
न्यासः
द्वन्द्वोपतापगह्र्रात्प्राणिस्थादिनिः। , ५।२।१२७
"तद्विषयेब्यः" इति। तच्छब्देनोपतापगर्हावेव परामृश्येते। ते उपतापगर्हे विषयो येषामिति बहुव्रीहिः। प्राणिस्थवाचिनां सर्वेषामेव द्वन्द्वादीनामिवं विशेषणम्()।
"प्राण्यङ्गान्नेष्यते" इति।
कथं पुनरिष्यमाणोऽपि न भवति? चकारानुवृत्तेः। "सिद्धे प्रत्यये" इति। "अत इनिठनौ"
५।२।११४ इत्यनेनैव। "ठनादिबाधनार्थम्()" इति। इनिरेव यता स्यात्(), ठनादिर्मा भूदित्येवमर्थं पुनर्वचनम्()।
आदिशब्देन मतुब्? गृह्रते। इत उत्तरे योगा नियमार्था वेदितव्याः॥
बाल-मनोरमा
द्वन्द्वोपतापगह्र्रात्प्राणिस्थादिनिः १९०८, ५।२।१२७
द्वन्द्वोपताप। द्वन्द्वसमासादुपतापवाचकाद्गह्र्रवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनि स्यादित्यर्थः। द्वन्द्वेति उदाहरण सूचनम्। कटकवलयिनीति। कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः। उपताप इत्यस्य विवरणं--रोग इति। किलासः कुष्ठभेदः। गह्र्रमित्यस्य विवरणं--निन्द्यमिति। ककुदावर्तीति। ककुदं ग्रीवाया अधस्तात्पृष्ठभागः। तत्र आवर्तः ककुदावर्तः, सोऽस्यास्तीति विग्रहः। काकतालुकिनीति। काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः।
प्राण्यङ्गान्नेति। व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भा,()ये अदर्शनात्। अत इत्येवेति। समासन्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। चित्रकललाटिकावतीति। चित्रकं च ललाटिका चेति द्वन्द्वः। अदन्तत्वाऽभावादिनिर्नेति भावः। ननु "अत इनिठनौ" इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणं किमर्थमित्यत आह--सिद्धे प्रत्यये इति। ठनादिति। आदिना मतुपः सग्रहः।