सूत्रम्
ऊर्णाया युस्॥ ५।२।१२२
काशिका-वृत्तिः
ऊर्णाया युस् ५।२।१२३
ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्यर्थे। सकारः पदसंज्ञार्थः। ऊर्णा अस्य विद्यते ऊर्णायुः। केचिच् छन्दोग्रहणम् अनुवर्तयन्ति।
न्यासः
ऊर्णाया युस। , ५।२।१२२
"ऊर्णायुः" इति। पदत्वेन भसंज्ञाभावाद्यस्येति लोपो न भवति॥
बाल-मनोरमा
ऊर्णाया युस् १९०३, ५।२।१२२
ऊर्णाया युस्। ऊर्णायुशब्दे "यस्येति चे"ति लोपमाशङ्क्याह--सित्त्वादिति। अनुवर्तयन्तीति। "बहुलं छन्दसीत्यस्मा"दिति शेषः।
तत्त्व-बोधिनी
ऊर्णाया युस् १४६३, ५।२।१२२
पदत्वमिति। तेन "यस्येति चे"ति लोपो न प्रवर्तत इति भावः। अनुवर्तयन्तीति। "बहुलं छन्दसी"त्यतः।