आमयस्येति। आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः।
श्रृङ्गवृन्दाभ्यामिति।
फलबर्हाभ्यामिति।
ह्मदयाच्चालुरिति। वार्तिकत्रयमिदम्। मतुप्चेति। "वक्तव्य" इति शेषः, भाष्ये तथोक्तत्वात्। चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि। तथा चाऽत्र चत्वारः प्रत्ययाः। तदाह--ह्मदयालुरित्यादि।
"शीतोष्णतृप्रेम्यस्तन्न सहते" इति वार्तिकमर्थतः सङ्गृहणाति -- शीतेति। शीत, उष्ण, तृप्र--एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृप्रः पुरोडाश इति। मन्त्रभाष्ये तथोक्तत्वादिति भावः।
हिमोच्चेलुरिति। वार्तिकमिदम्। हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः। चकार इत्।
बलादूल इति। "तन्न सहते इत्यर्थे वक्तव्य" इति शेषः। वातात्समूहे चेति। षष्ठ()न्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः।
तप्पर्वमरुद्भ्यामिति। वार्तिकमिदम्। पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः। "तन्वक्तव्य" इति वृत्तिकृत्, हरदत्तश्च। प्रौढमनोरमायां तु नित्त्वं निराकृतम्। शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम्। रूढत्वादवयवार्थाऽभावान्न मतुप्।
ह्मदयाच्चालुरन्यतरस्याम्। ह्मदयाच्चालुरन्यतरस्याम्। अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम्। मतुप् सर्तत्र समुच्चीयत एव। चकारस्य "चुटू"इतीत्संज्ञा। तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः।
शीतोष्णतृप्रेभ्यस्तदसहने। शीतोष्णेति। इह चालुरनुवर्तते। परुडाश इति। "न तृप्रा उरुव्यचस"मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः। माधव इति। सुब्धातुवृत्तौ स्थितमिदम्।
हिमाच्चेलुः। हिमाच्चेलुरिति। एकारदिरयं प्रत्यय इति माधवः।
बलादलः। बलादिति। सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ। तप्पर्वमरुद्भ्याम्। पित्त्वमनुदात्तत्वार्थम्। काशिकायां तु "पर्वमरुद्भ्यां तन्वक्तव्यः"इति स्थितम्। हरदत्तेनतु "त"न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम्। तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम्।