कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्य अपवादः। कम्बल्यम् ऊर्णापलशतम्। संज्ञायाम् इति किम्? कम्बलीया ऊर्णा।
ननु "अपरिमाणविस्ताचितकम्बल्येभ्यः"
४।१।२२ इति निपातनादेव कम्बल्य इति सिध्यति कम्बल्यं हि परिंमाणविशेषः, इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात्(), परिमाणविशेषस्य कम्बल्यशब्दो नामदेयम्(); अयमपि प्रत्ययः संज्ञायां विधीयमानस्तत्रैव भवति, नान्यत्र; नह्रत्र कम्बल्यशब्दः संज्ञा,
तस्मान्नार्थोऽनेन? नैतदस्ति;
निपातनेन हि कम्बल्यशब्दः परिमाणे साधुरित्येतावत्? प्रतीयते, न तु यदन्तोऽयमिति। ततश्चान्तस्वरितत्वं न स्यात्।
तस्मात्? स्वरितत्वपरिज्ञानार्थमिदं कत्र्तव्यम्()। अनन्तरश्रुतस्य यतोऽनुकर्षणार्थश्चकारः।
ननु स्वरितत्वादेव यद्भविष्यति? छोऽपि तर्हि स्यात्()। ननु च च्छस्य सन्निधाने प्रकृतिमात्राच्छ उक्त इति नियमार्थमिदं स्यात्(), तच्चानिष्टम्(),
यत्? पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता,
विधिनियमयोश्च विधेरेव ज्यायान्()? नैतदस्ति; छस्यापि सम्बन्धे विध्यर्थता सम्भवति। कथं संज्ञायामित्युच्यते, संज्ञा चानुपात्तावयवार्थापि भति,
तत्रानवयवार्थानामप्राक्क्रीतीयत्वाद्धिताद्यर्थाभावे छप्रत्ययार्थमेतत्? स्यात्(),
तस्माच्चकरो यत्प्रतययानुकर्षणार्थः कत्र्तव्यः? न कर्तव्यः; इष्टतोऽप्यधिकाराणां प्रवृत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति, न तु च्छस्य। एवं तर्हि चकार उगवादिभ्य इत्यनुकर्षणार्थः।
किमर्थमिदम्()? सनङ्ग्वादिभ्यः परत्वादञादयः प्राप्नुवन्ति तद्बाधनार्थमिति।
अथ गवादिष्वेव "कम्बलाच्च संज्ञायाम्()" इति कस्मान्न पठति? तत्र पाठे न कश्चिद्गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति॥