आर्हातित्येव। सङ्ख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु। ठञो ऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्तायाः इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाड् डतेः पर्युदासो न भवति, कतिकः।
"पञ्चकः पटः" इति। लौकिक्याः संख्याया उदाहरणम्()। "बहुकः" इत्यादि। परिभाषितायाः। "चत्वारिंशत्कः" इति।
"इसुसुक्तान्तात्? कः"
७।३।५१।
"अर्थवर्तास्तशब्दस्य ग्रहणात्()" इति। अर्थवद्ग्रहणपरिभाषया (व्या।प।१।)। "डतेः पर्युदासो न भवति" इति। शब्दापेक्षयाऽवयवषष्ठीति। प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्युदासो न भवति, न ह्रयमर्थवान्()। "कतिकः" इति। किं परिमाणमेषामिति "किमः संख्यापरिमाणे डति च"
५।२।४१ इति डतिः, "टेः"
६।४।१४३ इति टिलोपः। कतिभिः क्रीतमिति विगृह्र कन्()। यद्यर्थवतस्तिशब्दस्य ग्रहणम्, नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति; नवतिशब्द एव हि समुदायः संख्याविशेषेणार्थवान्(),
न तदेकदेशस्तिशब्दः? नैष दोषः; नवतिशब्दे यो नवशब्दः सोऽनेकार्थः।
तथा च संख्याविशेषावगतमतो नवशब्दात्? परो यस्तिशब्दस्तत एत विज्ञायते; तद्भावे भावात्()। अशीतिशब्दस्य तर्हि तिशब्दस्य पर्युदासो न प्राप्नोति,
नासावर्थवान्()? नापि ततः पूर्वो योऽशीशब्दस्तस्य कश्चिदर्थोऽस्ति,
समुदाय एव तु संक्याविशेषेणार्थवान्? नैतदस्ति; यद्यप्यशी-इतिशब्दस्य न कश्चनार्थः प्रकाशते, तथापि प्रतिज्ञायते। अशीतिशब्दो ह्रेवं व्युत्पाद्यते--अष्टानां दशानामशीभावः, तिशब्दश्च प्रत्ययः। य एवाष्टानां दशानामार्थः सोऽशीशब्दस्य, यस्तु संखघ्याविशेषः सोऽयं तिशब्दस्यैवेति, ततस्तस्य नानर्थक्यम्()।
एवमपि विशतेः प्रतिषेधो न सिध्यति? स ह्रेवं व्युत्पाद्यते--द्वयोर्दशतोर्विन्भावः, शतिंश्च प्रत्यः।
तत्र शतिप्रत्ययात्? पूर्वस्य भागस्य द्वयोर्दशतोर्योऽर्थः स एव प्रतिज्ञायते शतिप्रत्यस्य, संखायविशेषः, तिशब्दस्य न कश्चित्()। इष्टमेव तत्()।
संग्राहितः कन्? विंशतेः--"तदिं()वशतिकम्()" इति। अथ "अतिशदन्तायाः" इत्यत्रान्तग्रहणं किमर्थम्(),
अतिशच्छब्दस्य न प्राग्वतीयत्वात्? प्रत्ययग्रहणपरिभाषयैव (पु।प।ल।वृ।४४) तदन्तविधिर्भविष्यति/ एवदेव तर्हि प्रयोजनम्()--अनयचा परिभाषया तदन्तविधिर्मा भूदिति।
किञ्च स्यात्()? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्(); एकसप्तदशतस्तिप्रत्ययस्याविधानात्()। अन्तग्रहणे तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रुयत इत्यत्रापि प्रतिषेधः सिद्धो भवति॥
सह्ख्यायाः। तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता। द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः। साप्ततिक इति। सप्तत्या क्रीत इत्यर्थः। "तेन क्रीत"मिति ठञ्। चात्वारिंशत्क इति। चत्वारिंशता क्रीत इत्यर्थः। "तेन क्रीत"मिति ठञष्ठस्य तकारात्परत्वात्कः।