पूर्वम्: ४।४।४
अनन्तरम्: ४।४।६
सूत्रम्
तरति॥
४।४।५
काशिका-वृत्तिः
तरति
४।४।५
तेन इति तृतीयासमर्थात् तरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो ह्बवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः।
लघु-सिद्धान्त-कौमुदी
तरति
११२२, ४।४।५
तेनेत्येव। उडुपेन तरति औडुपिकः॥
न्यासः
तरति।
, ४।४।५
बाल-मनोरमा
तरति
१५३२, ४।४।५
तरति। तरतीत्यर्थे तृतीयान्ताट्ठगित्यर्थः।