सूत्रम्
समानोदरे शयित ओ चोदात्तः॥ ४।४।१०७
काशिका-वृत्तिः
समानौदरे शयित ओ चोदात्तः ४।४।१०८
समानोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्च उदात्तः। शयितः स्थितः इत्यर्थः। समानोदरे शयितः समानोदर्यः भ्राता।
न्यासः
समानोदरे शयित ओ चोदात्तः। , ४।४।१०७
"ओकारश्चोदात्तः" इति। यतः स्वरे प्राप्त ओकारस्योदात्तत्वं विधीयते। "शयितः स्थित इत्यर्थः"(इति)। अनेकार्थत्वात् तस्य स्थितावपि वृत्तेः; तथा हि ---जलाशय इति। समानोदर्यः" इति। समानञ्च तदुदरञ्चेति समानाधिकरणसमासं कृत्वा ततः प्रत्ययः॥
बाल-मनोरमा
समानोदरे शयति ओ चोदात्तः १६३८, ४।४।१०७
समानोदरे। समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः। शयित इत्यस्य विवरणं स्थित इति। कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः। समानोदर्य इति। समानमुदरमिति। विग्रहे "पूर्वापरप्रथमे"त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः। "विभाषोदरे" इति सभावेऽसति रूपम्।
तत्त्व-बोधिनी
समानोदरे शयिता ओ चोदात्तः १२६३, ४।४।१०७
शयितः स्थित इति। शीधातुः स्थित्यर्थे वर्तते। "जलाशयः" "कुशेशय"मिति प्रयोगादिति भावः। समानमुदरमिति "पूर्वापरप्रथमे"त्यादिना तत्पुरुषःष ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः।