सो ऽस्य इत्येव। स इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थम् अभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्सम्बन्धाद् देशो ऽपि अभिजनः इति उच्यते, यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यो, निवासप्रत्यासत्तेः। स्रुघ्नो ऽभिजनो ऽस्य स्रौघ्नः। माथुरः। राष्टियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सो ऽभिजनः। योगविभाग उत्तरार्थः।
"तत्सम्बन्धाद्देशोऽप्यभिजन उच्यते" इति। यथा यष्टीः प्रवेदशयेति यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वत्र्तते, तथाऽभिजनशब्दो देशे वत्र्तते।
कः पुनरसौ योऽभिजनसम्बन्धादभिजन उच्यते? इत्यत आह-- "यस्मिन्" इत्यादि। "इह देशवाचिनः" इत्यादि।
कथं पुनर्मुख्येऽभिजने गौणात् प्रत्ययो भवति? इत्याह-- "निवासप्रत्यासत्तेः" इति। निवासो
४।३।८९ऽनुकृष्यते तेनाभिजनो विशेष्यते निवासो योऽभिजन इति। तस्माद्देशवाचिन एव प्रत्ययो भवति, न बन्धुभ्यः ; तेषामनिवसत्वात्।
निवासाभिजनयोः को विशेषः? नास्त्येव कश्चिद्विशेषः, अभिजनस्य निवासभूतत्वादिति मन्यते। "यत्र" इत्यादि। विशेषं दर्शयति।
"योगविभाग उत्तरार्थः" इति। उत्तरेषु योगेष्वभिजनप्रत्यया यथा स्युः, निवासे मा भूवन्निति॥