विभाषा इत्येव। श्वःशब्दाद् विभाष ठञ् प्रत्ययो ह्बवति, तस्य च तुडागमो भवति। त्यप्प्रत्ययो ऽप्यतो विहितः, ऐषमोह्यः श्वसो ऽन्यत्रस्याम्
४।२।१०४ इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शैवस्तिकः, श्वस्त्यः, श्वस्तनः।
तस्य {तस्य चेति इति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः।
कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्,
पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं "वुञ्छण्कठच्"
४।२।७९ इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्,
किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते-- सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। "एताभ्याम्" इत्यादि। ()आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा "सायञ्चिरम्"
४।३।२३ इत्यादिना ट()उट()उलौ अपि भवतः॥