उवर्णान्तात् प्रातिपदिकातञ् प्रतयो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारम्। भाद्रदारवम्।
"अनुदात्तादेरन्यदिहोदाहरणम्" इति। अनुदात्तादेरुत्तरसूत्रेणैव सिद्धत्वात्। "दैवदारवम्, भाद्रदारवम्" इति। देवदारुभद्रदारुशब्दौ "पीतद्रवर्थानाम्" (फि।सू।२।३७) इत्याद्युदात्तौ। तस्यायमर्थः--पीतद्रुः अर्थो येषां ते पीतद्रवर्थाः, तेषां पीतद्रवर्थवचनानामादिरुदायो भवति॥
"दाधित्थम्" इत्यादि। दध्नि तिष्ठतीति, कपौ तिष्ठतीति --सुपि स्थः"
३।२।४ इति कः,"अतो लोपः"
६।४।४८ इत्यकारलोपः, पृषोदरादित्वात् सकारस्य तकारः,उपपदसमासः, समासस्वरेणान्तोदात्तौ। तेन दधित्थकपित्थशब्दावनुदात्तादी भवतः॥
ओरञ्। उवर्णादढ् स्यादित्यर्थः। प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे। दैवदारवं भाद्रदारवमिति। देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। "पीतद्वर्थाना"मित्याद्युदात्तावेतौ। ततश्च "अनुदात्तादेश्चे"त्यनेन गतार्थता न।