गोत्रवाचिभ्यः चरणवाचिभ्यः च प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये अणो ऽपवादः। छं तु प्रत्वाद् बाधते। गोत्रात् तावद् ग्लौचुकायनकम्। औपगवकम्। चरणाद् धर्माम्नाययोरिष्यते। काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्।
वुनि प्रकृते वुञ्विधानं वृद्ध्यर्थम्। तच्चावृद्धा एव गोत्रचरणशब्दाः प्रयोजयन्ति, न वृद्धाः। तेषु हि वुञि वुनि वा सति न कश्चिद्विशेषः। "ग्लौचुकायनकः" इति। "प्राचामवृद्धात् फिन् बहुलम्"
४।१।१६० इति फिन्, तदन्ताद्()वुञ्।
"चरणात्" इत्यादि। चरणाद्धर्माम्नाययोरेवेष्यते, नान्यत्र; अनभिधानादिति॥