पूर्वम्: ४।३।१२३
अनन्तरम्: ४।३।१२५
सूत्रम्
हलसीराट्ठक्॥
४।३।१२४
काशिका-वृत्तिः
हलसीराट् ठक्
४।३।१२४
हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्य इदम् इत्यस्मिन् विषये। अणो ऽपवादः। हलस्य इदं हालिकम्। सैरिकम्।
न्यासः
हलसीराट्ठक्।
, ४।३।१२४
बाल-मनोरमा
हलसीराट्ठक्
१४८३, ४।३।१२४
हलसीराट्ठक्। तस्येदमित्येव। हालिकं सैरिकमिति। हलस्येदं, सीरस्येगदमिति विग्रहः।