कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। (अव्ययानां भमात्रे टिलोपः)। सायम्प्रातिकः। पौनः पुनिकः॥
"कालविशेषवाचिनः" इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि
४।३।१६ सूत्रेणाणो विधानमनर्थकं स्यात्; "प्राग्दीव्यतोऽण्"
४।१।८३ इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्।
इह केचिच्छब्दा मुख्यया वृत्त्या काले वत्र्तन्ते-- मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या-- कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह-- "यथा कथञ्चित्" इति। येन केनचित्प्रकारेणेत्यर्थः। "गुणवृत्त्याऽपि" इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या।प।
४)? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति-- गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे
४।३।१६ प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्॥
कालाट्ठञ्। "कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण"मिति "तदस्य परिमाणं" "सङ्ख्यायाः" इति सूत्रभाष्ये स्पष्टम्। तदाह--कालवाचिभ्य इति। सायंप्रातिकः पौनःपुनिक इति। "अव्ययानां भमात्रे" इति टिलोपः। "सायञ्चिर"मिति ठ्युठ्युलौ तु न भवतः, "नस्तद्धिते" इति सूत्रभाष्ये तथा प्रयोगदर्शनात्। शार्वरस्येति। समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः। प्रामाणिका इति। केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः। इति यावदिति। व्याख्यानादिति भावः।
कालाट्ठञ्। स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी--प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात्। किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह---कालावाचिभ्य इति। यत्तु "स्वरूपस्य पर्यायाणां च न ग्रहण "मिति पदमञ्जर्यादिषु स्थितम्। तदसत्। "कालिकः संबन्धः", "कालिकी व्याप्ति"रित्यादिप्रयोगाऽनापत्तेः। न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात्। गौणमुख्यन्यायस्त्विह नाश्रीयते। तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः। अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः। न च पुष्पदिशब्दानां कालो मुख्य एवार्थः, "लुबविशेषे"इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात्। "लुबविशेषे"इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक्। एवं स्थिते "कालवाचिभ्य"इति मूलस्य "कालप्रतिपादकेभ्यः"इति फलितोऽर्थः।