कवचिन् शब्दात् ठञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। कवचिनाम् समूहः कावचिकम्। चकारः केदारातित्यस्य अनुकर्षणार्थः। केदाराणां समूहः कैदारिकम्।
कवचिञ्शब्दो मत्वर्थीयेनिप्रत्ययान्तः,प्रत्ययस्वरेणान्तोदात्तः। तस्मादनुदात्तादि
४।२।४३ लक्षणेऽञि प्राप्ते वचनम्॥