सूत्रम्
विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः॥ ४।२।२२
काशिका-वृत्तिः
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ४।२।२३
फल्गुन्यादयः पौर्णमासीशब्दाः तेभ्यो विभाषा ठक् प्रत्ययो भवति, सा ऽस्मिन् पौर्णमासी इति सज्ञायाम्
४।२।२० इत्येतस्मिन् विषये। नित्यम् अणि प्राप्ते पक्षे ठग् विधीयते। फाल्गुनो मासः, फाल्गुनिकः। श्रावणः, श्रावणिकः। कार्तिकः, कार्तिकिकः। चैत्रः, चैत्रिकः।
न्यासः
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः। , ४।२।२२
बाल-मनोरमा
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः १२०६, ४।२।२२
विभाषा फाल्गुनी। एभ्यष्ठग्वेति। "सास्मिन्" इत्युक्तविषये" इति शेषः। फाल्गुनिकः--फाल्गुनो वा मास इति। फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः एवं श्रावणिक इत्यादि। इति युक्ताद्यर्थकाः।