देशे इत्येव। गर्तौत्तरपदात् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। अणो ऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्।
अवृद्धार्थ वचनम्। वृद्धात्तु "वृद्धाच्छः"
४।२।११३ इत्यनेनैव सिद्धमिति। सति तु वृद्धावपि परत्वादनेनैव भवितव्यम्। "अनोऽपवादः" इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। "वाहीकग्रामलक्षणञ्च" इत्यादि। यद्()गत्र्तोत्तरपदं वाहीकवाचि ततो वाहीकग्रामलक्षणौ ठञ्ञिठौ बाधित्तवात् परत्वाच्छ एव भवति, तस्य गत्र्तोत्तरपदमवकाश इति। अथोत्तरपदग्रहणं किमर्थम्,
न गत्र्तान्तादित्येवोच्येत? इत्याह-- "उत्तरपदग्रहणम्" इत्यादि। यदि गत्र्तान्तादित्युच्येत तदा बहुगत्र्त इत्येतस्मादपि बहुच्पूर्वात् स्यात्, भवति ह्रेतद्()गत्र्तान्तम्। उत्तरपदग्रहणे तु सति न भवति, न ह्रेतद्()गत्र्तोत्तरपदम्। समासे हि सत्येतद्भवति-- पूर्वपदमुत्तरपदमिति॥
"अणादेरपवादः" इति। आदिशब्देन वुञः। तत्र कामप्रस्थशब्दात् "प्रस्थपुरवहान्ताच्च"
४।२।१२१ इति प्राप्तस्य वृञोऽपवादः, शेषेभ्यस्त्वौत्सर्गिकस्याणः। "सम्भवापेक्षं विशेषणम्िति। सम्भवमपेक्षत इति सम्बवापेक्षम्। येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेवेदं विशेषममिति। एतदुभयमपि विशेषणमेवार्थार्यैः स्मर्यते। "पृथिवीमध्यस्य" इत्यादिना तद्विशेषं दर्शयति। "चरणसम्बन्धेन" इत्यादि। चरणेनार्थेन सम्बन्धश्चरणसम्बन्धः; तेन करणेन वाण् भवति।
किंविशिष्टः? निवासलक्षमः। निवासो लक्षणं यस्य स तथोक्तः।
कथं निवासलश्रणः? यः पृथिवीमध्ये निवासभूते वत्र्तमानात् मध्यशब्दाद्भवति, स हि निवासेन लक्ष्यते। तदेतदुक्तं भवति--पृथिवीमध्यनिवासोऽस्य चरणस्येति। यदायमर्थो विज्ञायते तदाण्भवति, नान्यत्रेति। तेन यदा पृथिवीमध्याद्()गतं चरणमिति चरणमिति विवक्ष्यते तदा च्छ एव भवति--मध्यमीय इति।
कथं पुनः सामान्योक्तावेव विशेषो लभ्यत इति? सामान्यभिधानेऽपि विशेषोपस्थानदर्शनात्। घृतक्षरणवच्च स ह्रविशेषेणोपदिष्टो घृतादिष्वेवावतिष्ठते। तस्मात् सामान्योक्तावपि पृथिवीमध्य एव वत्र्तमाने मध्यशब्दो मध्यमभावमापद्यते। चरणे च प्रत्ययार्थे निवासलक्षण एवाण् भवति,न हि सर्वेषु जातादिष्वर्थेषु।
"मुखपार्(ातसोर्लोपः" इति। मुखपार्(ाशब्दयोस्तसस्तयोः प्रत्ययसन्नियोगेन लोपो भवति। स च अलोऽन्त्यस्य
१।१।५१ इति वचनादन्त्यस्य। लोपवचनं "अव्ययानां भमात्रे टिलोपः" (वा।८४२) इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इत्यत्र न भवति। "मुखतीयम्, पार्(ातीयम्" (इति)। "अपादाने चाहीयरुहोः"
५।४।४५ इति मुखपार्(ाशब्दाभ्यां तसिः। "आद्यादिभ्य उपसंख्यानम्" (वा।६३४) इत्यौपसंख्यानिके सकारस्य लोपे कृतेऽकारस्यापि "यस्येति च"
६।४।१४८ इति लोपः।
"देवस्य चेति वक्तव्यम्" इति। देवशब्दस्य कुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "{जनपपदयोः कुक्क इति सं। परिषत्काशिकापाठः"}कुग्जनस्य परस्य" (वा।ग।सू।१०१) इत्यत्र चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन देवदशब्दादपि भविष्यति॥