वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्तात् देशवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शावरजम्बुकः। देशे इति किम्? पटोश्छात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्ग्रहणं कृतम्।
"नैषादकर्षुकः। शावरजम्बुकः" इति। निषादकर्षूवरजम्बूशब्दाभ्यां ठञ्, "इसुसुक्तान्तात् कः"
७।३।५१, "केऽणः"
७।४।१३ इति ह्यस्वः। ननु च ठञ् प्रकृत एव, स एवेहानुकृष्यते,
त()त्क ठञ्ग्रहणेन? इत्यत आह-- "ठञ्ञिठयोः" इति। यथैव हि ठञ् प्रकृतः, एवं ञिठोऽपि। तत्र द्वयोरपि प्रकरणे ठञ् चानुवर्तिष्यते, नेतर इत्येतन्न लभ्यते। तस्मात् ञिठस्य निवृत्तये पुनष्ठञ्ग्रहणं कृतम्।
ननु चास्वरितत्वादेव ञिठो नानुवर्तिष्यते? सत्यमेतत्; तदेवास्वरितत्वं ज्ञापयितुं ञिठस्य ठञ्ग्रहणं कृतम्। तच्चास्वरितत्वमाख्यायते मन्दबुद्धीनामनुग्रहाय॥