प्राग्दीव्यतः इति वर्तते, न भवनातिति। द्विगोः इति षष्ठी। द्विगोर् यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयो ऽपत्यप्रत्ययं वर्जयित्वा तस्य लुग् भवति। पज्चसु कपालेषु संस्कृतः पज्चकपालः। दशकपालः। द्वौ देवादधीते द्विवेदः। त्रिवेदः। अनपत्ये इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग्दिव्यतः इत्येव, द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति, पञ्चकपालस्य इदं पाञ्चकपालम्। अथ वा द्विगोरेव अयं लुग् विधीयते। द्विगोः इति स्थानषष्ठी। ननु च प्रत्ययादर्शनस्य एषा संज्ञा? सत्यम् एतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तको ऽपि तर्हि गुणकल्पनया कस्मान् न द्विगुरुच्यते पाज्चकपालम् इति? न तस्य द्विगुत्वम् निमित्तम्। इतरस् तु द्विगुत्वस्य एव निमित्तम् इत्यस्ति विशेषः। यद्येवम् इह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति? न एव अत्र तद्धित उत्पद्यते। वाक्यम् एव भवति। त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः। अपरस्मादुत्पत्तिर् भविष्यति। अथ इह कस्मान् न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गम् अयम् इति वा इत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते।
"प्राग्दीव्यतः" इति। तस्य स्वरितत्वात्। "न भवनात्िति। विपर्ययात्।
द्विगोरिति पञ्चमी चेयं स्यात्? षष्ठी वा? तत्र यदि पञ्चमी, तदायमर्थः स्यात्-- द्विगोः परस्यानप्रत्यप्रत्ययस्य प्राग्दीयव्यतीयस्य लुग्भवतीति। ततश्च यथा द्विगुसंज्ञानिमित्तस्य लुग्भवति-- पञ्चकपालेषु संस्कृतः पुरोडाशः पञ्चकपाल इति, तथा यो द्विरगोर्निमित्तं न भवति तस्यापि स्यात्-- पञ्चकपालस्य पुरोडाशस्येदं खण्डम्। "तस्येदम्"
४।३।१२० इत्यण्-- पाञ्चकपालमिति। तमिमं पञ्चमीपक्षे दोषं दृष्ट्वा, षष्टीपक्षमाश्रित्याह-- द्विगोरिति षष्ठी" इति। "द्विगोर्यः सम्बन्धी" इति। यस्य तद्धितस्यार्थे "तद्धितार्थोत्तरपदसमाहारे च"
२।१।५० इति समाहारद्विगुर्विधीयते स द्विगोः सम्बन्धीति; अर्थद्वारेण तदर्थस्य द्विगुसम्बन्धित्वात्। सोऽपि तद्द्वारेण द्विगुसम्बन्धी। "निमित्तत्वेन"इति। अनेन निमित्तनैमित्तिकभावेन यः सम्बन्धो तस्य लुग्भवति, न तु पौर्वापर्यभावेन यस्तस्येति दर्शयति। एतच्च निमित्तनैमित्तिकभावस्यान्तरङ्गत्वाल्लभ्यते। स हि द्विगोराद्यस्तद्धितेन सम्बन्धः; तस्मात् स गृह्रते। पौर्वापर्यभावस्तूत्तरकालमपि भवतीति बहिरङ्गो भवति, अतो न तस्य ग्रहणम्। "पञ्चकपालः" इति। पञ्चसु कपालेषु संस्कृत इति "तद्धितार्थ"
२।१।५० इति समासः, "संख्यापूर्वो द्विगुः"
२।१।५१ इति द्विगुसंज्ञा, "संस्कृतम्"
४।४।३ इत्यण्, तस्य लुक्। "द्विवेदः"इति। द्वौ वेदावधीत इति पूर्ववत्समासः, "तदधीते तद्वेद"
४।१।५९ इत्यण्।
"द्वैदेववत्तिः" इति। द्वयोर्देवदत्तयोरपत्यमिति "अत इञ्"
४।१।९५। "पञ्चकपालस्येदमिति पाञ्चकपालम्" इति। अत्र संस्कृतार्थे यः प्रथमः प्रत्यय उत्पन्नः स एव द्विगोर्निमित्तम्, न तु य उत्तरकालं तस्येदमित्यर्थविवक्षायाम्। न हि तस्यार्थे विषयभूते द्विगुर्विहितः,
किं तर्हि? संस्कृतार्थे यो विहितस्तस्य। तेनाद्विगुनिमित्तत्वात् "तस्येदम्"
इति यो विहितस्तस्येह लुग्न भवति। "अथ वा" इत्यादि। पूर्वं हि द्विगोर्यस्तद्धितो निमित्तं तस्य लुग्विहितः, इदानीं द्विगोरेव विधीयत इत्यस्ति विशेषः।
कथं पुनर्द्विगोरेव लुग्भवति? इत्यत आह-- "द्विगोरिति स्थानषष्ठी" इति।
"ननु च" इत्यादिनानन्तरोकक्तव्याख्यानं विघटयति। "प्रत्ययस्य लुक्श्लुलुपः"
१।१।६० इतिलुगादिकाः प्रत्ययादर्शनस्यैताः संज्ञा विहिताः, ततो लुगुच्यमानोऽनेन न शक्तो द्विगोरेव लुकं विधातुमित्याभिप्रायः। "सत्यमेतत्" इति। यदनन्तरमुक्तम्। यद्येवम्,
कथं लुक्संज्ञाया द्विगोर्लुग्लभ्यते? इत्यत आह-- "उपाचारेण तु" इत्यादि। अतथाभूते वस्तुनि योऽध्यारोपिततथाभावो ज्ञानविशेषः स उपचारः। लक्ष्यतेऽनयेति लक्षणा, सापुनरिहोपचार एव "एतेन ह्रद्विगुरूपस्तद्धितो द्विगुरूपतया लक्ष्यते। यथा मञ्चाः क्रोशन्तीत्यत्रामञ्चरूपा अपि पुरुषा मञ्चरूपतया लक्ष्यन्ते, तथेहाप्यद्विगुरूपस्तद्धितो द्विगुरूपतया। उपचारस्य तु निबन्धनं द्विगुनिमित्तभूतत्वम्, यदाह--- " द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः" इति। भवति हि कारणे कार्योपचारः, यथा-- आयुर्घृतमिति। "द्विगुनिमित्तकोऽपि तर्हि" इत्यादि। द्विगुर्निमित्तं यस्य स तथोक्तः। यो धर्म उपचारस्य निबन्धनं स इह गुणशब्देन विवक्षितः। गुणनिमित्ता कल्पना = गुणनिमित्तकल्पना, सा पुनरुपचारात्मिकैव वेदितव्या। यद्युपचारेण द्विगोर्निमित्तं प्रत्ययोऽपि द्विगुरुच्यते,
द्विगुर्यस्य निमित्तं सोऽप#इ गौण्या कल्पनया कस्माद्द्विगुरिति नोच्यते? कार्येऽपि हि कारणशब्द उपचारात् प्रयुज्यमानो विद्यत एव, यथा-- पुरातनं सर्वमिदं शुभाशुभं कर्म भुज्यत इति। "पाञ्चकपालम्" इति। पञ्चकपालस्य पुरोडाशस्येदं खण्डमित्यण्, स च द्विगोरुत्पन्नत्वाद्द्विगुनिमित्तक इत्यभिप्रायः। न तस्य द्विगुत्वं निमित्तमिति निष्पन्नत्वाद्द्वगोस्तद्धितस्योत्पद्यमानस्य न द्विगुत्वं निमित्तं,
किं तर्हि? प्रातिपदिकम्। तथा हि-- नासौ द्विगुरित्येवं विधीयते,
किं तर्हि? प्रातिपदिकादित्येवम्। तस्मात् सन्निहिताऽपि द्विगुता न प्रत्ययस्य निमित्तमिति, न च प्रत्ययो द्विगुरित्युपचारेण व्यपदेष्टुं शक्यत इति। "इतरस्तु" इति। तद्धितप्रत्ययः, यस् मूलोदाहरणे लुग्दर्शितः। "द्विगुत्वस्यैव निमित्तम्" इति। एवकारेण प्रातिपदिकस्य व्यवच्छेदः क्रियते-- द्विगुत्वस्यैव निमित्तम्, न तु प्रातिपदिकत्वस्य; यतस्तदर्थे द्विगुसमासो विधीयते,न तु प्रातिपदिकत्वमित्यस्ति विशेषः। ततश्च द्विगोर्यो निमित्तं तत्रैव द्विगुत्वव्यपदेश उपाचाराद्भवति। न तु निष्पन्नाद्द्विगोर्य उत्पद्यते तत्रापि।
"यद्येवम्ित्यादि। यदि द्विगोर्यो निमित्तं तद्धितः सोऽत्र निमित्तत्वादुपाचारेण द्विगुरुच्यते तस्य लोपो भथवि।
एवं सतीह कथं लोपः-- पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? अत्र हि पञ्चानां कपालानां समाहार इति समाहारे द्विगौ निष्पन्ने ततस्तूत्तरकालं तद्धितो विधीयमानो न द्विगोर्निमित्तं भवति। "नैवात्र" इत्यादि परिहारः। कस्मान्नोत्पद्यत इत्याह-- "त्रैशब्द्यं हि" इत्यादि। त्रय एव शब्दाः = त्रैशब्द्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। इहास्माभिस्त्रैशब्द्यं साध्यम्। पञ्चकपालीशब्दस्तद्धितोत्पत्तिमन्तरेणापि सिद्धतीति न तस्मात् तद्धित उत्पद्यते। "पञ्चसु कपालेषु संस्कृतः" इत्यादिना त्रैशब्द्यं दर्शयति। "द्वयोः शब्दयोः" इत्यादि। यश्च समाहारे पञ्चकपालीशब्दः, यश्च तद्धितार्थविषये समासे पञ्चकपालशब्दस्तौ द्वावपि समानार्थौ,तयोरेकेन पूर्वेण विग्रह एवेति तस्मान्न तद्धितोत्पत्तिर्विज्ञेया। "अपरस्मादुत्पत्तिः" इति। पञ्चकपालशब्दात्। अव्यविकन्यायेन। यथाऽवेर्मांसमाविकमित्यविशब्देन विग्रहः,अविशब्दस्तु प्रत्ययमुत्पादयति तद्वदिहापि।
"अथेह कस्मान्न भवति" इत्यादि। रूप्यमयटावपि हि द्विगोर्निमित्तभूतौ, अतस्तयोरपि लुका भवितव्यमिति भावः। "वेत्यनुवत्र्तते" इति "समर्थानां प्रथमाद्वा"
४।१।८२ इत्यतः। नन्वेवमपि सर्वत्र विकल्पेन लुक् प्राप्नोतीत्यत आह-- "सा च" इत्यादि। च शब्दो हेतौ। यस्मात् सा व्यवस्थितविभाषा विज्ञायते, तेन पञ्चकपाल इत्यादौ नित्यं लुग्भवति। पञ्चगर्गरूप्यमित्यादौ न भवत्येव॥