()आशुरस्येति। वृत्त्यादौ पठितमिदम्। चकारादूङनुकृष्यते। ()आशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे ङीषि प्राप्ते तदपवाद ऊङ्, तत्संनियोगेन रेफादकारस्य शकारादुकारस्य लोपश्चेत्यर्थः। नच वकारादकारस्य लोपः शङ्क्यः, "अन्त्यबाधेऽन्त्यसदेशस्ये"ति वचनात्। "यस्येति चे"ति तु नात्र भवति, ईकारे तद्धिते च तद्विधानात्। ननु ()आशूरित्यत्र कथं स्वादयः, "ङ्याप्प्रातिपदिका"दित्यधिकृत्य तद्विधेः, अस्य च ङ्याबन्तत्वाऽभावात्, ऊङन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाऽभावादित्यत आह--लिङ्गविशिष्येति। "प्रातिपदिकग्रहणे लिङ्गविशिष्यस्यापि ग्रहण"मिति परिभाषयेत्यर्थः। वस्तुतस्तु ()आशुरस्येति वचनममूलकमेव, भाष्येऽदृष्टत्वात्, "ङ्याप्प्रातिपदिका"दिति सूत्रस्थभाष्यविरोधाच्च। तत्र हि "ङ्याप्प्रातिपदिका"दित्यत्र ऊहोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादूङ् विधीयते। तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम्। यदि ह्रुक्तरीत्या ()आश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव। तथाच ()आश्रूरित्यव्युत्पन्नं प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम्।
()आशुरस्योकाराऽकारलोपश्च। ()आशुरस्येति। पुंयोगलक्षणे ङीषि प्राप्ते ऊङ् तत्संनियोगेन च विधीयमानो लोपः संनिहितत्वादन्तस्यैवाऽकारस्य न त्वादेः। एतच्च वचनं "()आशुरः ()आश्र्वे"ति निर्देशसिद्धार्थकथनपरम्। अतोऽपि प्रथमाकारस्य लोपो न शङ्क्यः।