"पञ्चपूली" इति। पञ्चानां पूलानां समाहार इति। "तद्धितार्थोत्तरपदसमाहारे च"
२।१।५० इति समाहारद्विगुः। "अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते" (वा। १५६) इति स्त्रीलिङ्गता।
"त्रिफला" इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः॥
द्विगोः। "स्त्रिया"मिति "अत" इति "ङी" बिति चानुवर्तते। तदाह-अदन्तादिति। त्रिलोकीति। त्रयाणां लोकानां समाहार इति विग्रहः। "तद्धितार्थोत्तरपदसमाहारे चे"ति द्विगुसमासः। "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इति स्त्रीत्वम्। त्रिलोकशब्दाट्टाबपवादो ङीप्। "यस्येति चे"ति भावः। ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह--अजादित्वात्रिफला त्र्यनीकेति। "भवती"ति शेषः। त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे "तद्धितार्थ" इति द्विगुः। "अकारान्तोत्तरपदः" इति स्त्रीत्वम्, "द्विगोः" इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः। अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः। अपरिमाण। "द्विगोः" इति ङीबिति चानुवर्तते। प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते। तदन्तविधिः।