सूत्रम्
वाकिनादीनां कुक् च॥ ४।१।१५८
काशिका-वृत्तिः
वाकिनादीनां कुक् च ४।१।१५८
वाकिन इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति, तत् संनियोगेन च एषां कुगागमः। यदिह वृद्धम् अगोत्रं शब्दरूपं तस्य आगमार्थम् एव ग्रहणम्, अन्येषाम् उभयार्थम्। वाकिनकायनिः। गारेधकायनिः। इञाद्यपवादो योगः। उदीचाम् इत्यधिकारात् पक्षे ते ऽपि भवन्ति। वाकिनिः। गारेधिः। वाकिन। गारेध। कार्कट्य। काक। लङ्का। चर्मिवर्मिणोर् नलोपश्च।
न्यासः
वाकिनादीनां कुक्च। , ४।१।१५८
"यदिह वृद्धमगोत्रम्" इति। वाकिनशब्दादिकाकपर्यन्तम्। "इञाद्यपवादो योगः" इति। आदिशब्देनाणो ग्रहणम्। तत्र चर्मिवर्मशब्दयोरणोऽपवादः शेषाणामिञः।
"चमिवर्मिणोर्नलोपश्च" इति। चर्मिन्, वर्मिन्-- इत्येतयोः कुक्फिञौ भवतः, नलोपश्चेति। कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपोऽत्र न प्राप्नोतीति विधीयते-- चार्मिकायणिः,वार्मिकायणिः॥
बाल-मनोरमा
वाकिनादीनां कुक्च ११६४, ४।१।१५८
वाकिनादीनां। शेषपूरणेन सूत्रं व्याचष्टे--अपत्ये फिञ्वेति। चकारादुदीचामिति फिञिति चानुवर्तते इति भावः। तथा च वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम्।
तत्त्व-बोधिनी
वाकिनादीनां कुक्च ९६२, ४।१।१५८
वाकिनादीनां। यदिह वृद्धमगोत्र शब्दरूपं, तत्रागमार्थमेवेदं वचनम्, अन्येषां तूभयार्थम्। "उदीचा"मित्यनुवर्तनाद्विकल्पः फलित इत्याह---फिञ्वा स्यादिति। वाकिनकायमिरिति। वचनं वाकः, सोऽस्यास्तीति वाकिनः। अतएव निपातनादिनन्। अगारे एधत इथि गारेधः। पृषोदरादित्वादादिलोपः। शकन्ध्वादित्वात्पररूपम्। गारेधकायनिमः। चर्मिवम्र्यादौ कूभयार्थम्। चर्मवर्मशब्दाभ्यां व्रीह्रादित्वादिनिः। "चर्मिवर्मिणोर्नलोपश्चे"ति गणसूत्रम्। चार्मिकायणिः। वार्मिकायणिः। कुकि कृते नकारस्याऽनन्त्यत्वान्नलोपाऽप्राप्तौ वचनम्। न चु कुट् परादिरस्त्विति वाच्यं, फस्याऽनादित्वादायनादेशाऽभावप्रसङ्गा। वाकिनिरिति। "अत इञ्"। फिञभावे तत्संनियोगशिष्टः कुगत्र न भवति। एवं गारेधिः, चार्मिण इत्याद्यूह्रम्।