कुत्सने इत्येव। सौवीरेषु इति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमने। भागवित्तेः भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्, भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः, आकशापेयः। तस्य अपत्यम् आकशापेयिकः। पक्षे आकशापेयिः। भागपूर्वपदो वित्तिर् द्वितीयस् तार्णबिन्दवः। तृतीयस् त्वाकशापेयो गोत्राट् ठग् बहुलं ततः। वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेषु इति किम्? औपगविर्जाल्मः। कुत्सने इत्येव, भागवित्तायनो माणवकः। बहुलग्रहणम् उपाधिवैचित्र्यार्थम्। गोत्रस्त्रियाः इत्यारभ्य चत्वारो योगास् तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते।
"सौवीरेष्विति प्रकृतिविशेषणम्" इति। सौवीरेषु यद्()वृद्धं सौवीरगोत्राभिधायि यद्()वृद्धमित्यर्थः। "भागवित्तेःट इत्यादि। भगवित्तस्यापत्यं गोत्रम्। "अत इञ"
४।१।९५ , तदन्तात् ठक्-- "भागवित्तिकः"। "भागवित्तायनः" इति। "यञिञोश्च"
४।१।१०१ इति फक्। तृणादिबिन्दोरपत्यमौत्सर्गिकोऽण् तार्णबिन्दवः, ततष्ठक्-- "तार्णबिन्दविकः"। पूर्वसूत्रे ठक् चानुकृष्ट इतीह नानुवत्र्तत इति पुनष्ठग्ग्रहणं ण्सय निवृत्त्यर्थम्। वापूर्वकं हि ठग्ग्रहणं णप्रत्ययेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्।
"भागपूर्वपदो वृत्तिः" इत्यादि। येभ्योऽनेन सूत्रेण ठगिष्यते, त एतेन श्लोकेन परिगण्यन्ते। "भाग" इत्येतत् पूर्वपदं यस्य वृत्तिशब्दस्य स तथोक्तः। अयं तावदेको भागवित्तिः, द्वितीयस्तार्णबिन्दवः, तृतीयस्त्वाकशापेयः-- य एते त्रयः शब्दाः ,गोत्रे ठग्बहुलं तत इति। सौवीरगोत्रवचनान्तात् प्रातिपदिकाद्बहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवित्तिप्रभृतिभ्यस्त्रिभ्यो भवति, नान्येभ्य इत्यर्थः।
अथ वृद्धग्रहणं किमर्थम्, यावता पूर्वसूत्राद्गोत्रग्रहणमनुवत्र्तते, सौवीरग्रहणेनैव विशेषयिष्यामः; यच्चसौवीरगोत्रे वत्र्तते प्रातिपदिकं भागवित्त्यादिकं तद्वृद्धमेव,
ततो निवृत्त्यभावादपार्थकं वृद्धग्रहणम्? इत्याह -- "वृद्धग्रहणम्" इत्यादि। तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तस्मिन्ननुवत्र्तमाने विशेष्यायाः स्त्रिया अनुवृत्तिः स्यात्। तस्मात् तन्निदृत्त्यर्थं वृद्धग्रहणम्। गोत्रग्रहणमेवानुवर्तिष्यते; तस्यैव स्वरितत्वात्, न स्त्रीति-- एतद्व्याख्येयं भवति। व्याख्यानाच्च लघु वृद्धग्रहणमेव।
"औपगविः" इति। अणन्तादिञ्। ननु च परिगणनं कृतम्,
तत्कथमौपगवशब्दात् ठक्प्रसङ्गः? सौवीरग्रहणे सति तत्परिगणनम्। तथा हि-- भागवित्तिप्रभृतयः सौवीरगोत्राभिधायिन एव परिगणिताः। तत्रासति सौवीरग्रहणे औपगवशब्दादपि प्रसज्यते-- "भागवित्तायनः" इति। पूर्ववत् फक्।
अथ बहुलग्रहणं किमर्थम्,न, वाग्रहणमेव क्रियेत,
तेनापि हि भागवित्तिको भाघवित्तिकायन इत्यादि सिध्यत्येव? इत्यत आह-- "बहुलग्रहणम्" इत्यादि। वाग्रहणाद्विकल्पमात्रं लभ्यते, न तूपाधिवैचित्र्यम्। बहुलग्रहणे तु तदपि। तस्मादुपाधीनां विशेषमानां वैचित्र्यम् = नानाप्रकारता यथा स्यादित्येवमर्थं बहुलग्रहणम्। तदेवोपाधिवैचित्र्यं दर्शयितुमाह-- "गोत्रस्त्रिया इत्यारभ्य" इत्यादि। सुखावबोधम्॥
वृद्धाट्ठक्()सौ। पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते। सौवीरेष्विति प्रकृतिविशेषणं। तदाह--वृद्धादिति। "वृद्धिर्यस्याचामादि"रिति वृद्धिसंज्ञकादित्यर्थः। ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम्। भागवित्तेरिति। भगवित्तस्य सौवीरं गोत्रापत्यं--भागावित्तिः, तस्यापत्य युवेत्यर्थे ठकि इकादेसे भागवित्तिक" इति रूपमित्यर्थः। पक्षे फगिति। "यञिञोश्चे" त्यनेने"ति शेषः।