सूत्रम्
पितृष्वसुश्छण्॥ ४।१।१३२
काशिका-वृत्तिः
पितृष्वसुश् छण् ४।१।१३२
पितृष्वसृशब्दातपत्ये छण् प्रत्ययो भवति। पैतृष्वस्त्रीयः।
न्यासः
पितृष्वसुश्छण्। , ४।१।१३२
बाल-मनोरमा
पितृष्वसुश्छण् ११२२, ४।१।१३२
पितृष्वसुश्छण्। पैतृष्वस्त्रीय इति। पितृस्वसुरपत्यमिति विग्रहः। छस्य ईयादेशे आदिवृद्धिः। करारादृकारस्य यण्।