सूत्रम्
शुभ्रादिभ्यश्च॥ ४।१।१२३
काशिका-वृत्तिः
शुभ्राऽदिभ्यश् च ४।१।१२३
शुभ्र इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः ढक् प्रत्ययो भवति। यथायोगम् इञादीनाम् अपवादः। शौभ्रेयः। वैष्टपुरेयः। चकारो ऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति, तेन गाङ्गेयः, पाण्डवेयः इत्येवम् आदि सिद्धं भवति। शुभ्र। विष्टपुर। ब्रह्मकृत। शतद्वार। शतावर। शतावर। शलाका। शालाचल। शलाकाभ्रू। लेखाभ्रू। विमातृ। विधवा। किंकसा। रोहिणी। रुक्मिणी। दिशा। शालूक। अजबस्ति। शकन्धि। लक्ष्मणश्यामयोर् वासिष्ठे। गोधा। कृकलास। अणीव। प्रवाहण। भरत। भारम। मुकण्डु। मघष्टु। मकष्टु। कर्पूर। इतर। अन्यतर। आलीढ सुदत्त। सुचक्षस्। सुनामन्। कद्रु। तुद। अकाशाप। कुमारीका। किशोरिका। कुवेणिका। जिह्माशिन्। परिधि। वायुदत्त। ककल। खट्वा। अम्बिका। अशोका। शुद्धपिङ्गला। खडोन्मत्ता। अनुदृष्टि। जरतिन्। बालवर्दिन्। विग्रज। वीज। श्वन्। अश्मन्। अश्व। अजिर।
न्यासः
शुभ्रादिभ्यश्च। , ४।१।१२३
"यथायोगम्" इत्यादि। ये तावदकारान्तास्तेभ्य इञोऽपवादः। शलाका, कुरेका,अम्बिका, अशोका, खट्वा, पिङ्गला, खण्डोन्मत्ता-- इत्येतेम्पस्तन्नामिकाणः। विधवाशब्दात् क्षुद्रालक्षणस्य ढ्रकः। किंकसा, रोहिणी, अजवस्ति, शकन्धि, कृकलास, सुदत्त, परिधि-- एतेभ्यश्चतुष्पाल्लक्षणस्य ढञः। गोधाशब्दाद् गोधाया ढ्रकः, वचनसामथ्र्यात् सोऽपि भवत्येव। शेषेभ्य औत्सर्गिकोऽण इत्येष यथायोगार्थः। "लक्षणश्यामयोर्वासिष्ठे" इति। लक्षण, श्याम-- इत्येतयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति। लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः। श्यामेयो वासिष्ठः, श्यामायनोऽन्यः। अ()आआदित्वात् फञ्॥
बाल-मनोरमा
शुभ्रादिभ्यश्च १११०, ४।१।१२३
शुभ्रादिभ्यश्च। ढक् स्यादिति। शेषपूरणम्। इञाद्यपवादः। शुभ्रस्यापत्यमिति। अस्त्रीत्वादप्राप्तौ ढगिति भावः।
तत्त्व-बोधिनी
शुभ्रादिभ्यश्च ९२९, ४।१।१२३
शुभ्रादिभ्यश्च। चकारस्त्वाकृतिगणत्वत्वद्योतनार्थ इत्याहुः। मृकण्डशब्दोऽत्र पठ()ते। मार्कण्डेयः। शुभ्र, मृकण्ड, अ()आ, विमातृ। विधवा, गोधा, प्रवाहणेत्यादि। आकृतिगणोऽयम्। तेन "पाण्डवेय"इत्यादि सिद्धम्। इहाऽदन्तेषु इञ् प्राप्तः, विधवाशब्दात्क्षुद्रालक्षणो ढक्, चतुष्पाज्जातिवाचिषु ढञ्, गोधाशब्दाड्ढ्रग्वनात्सोऽपि भवति, क्वचिदौत्सर्गिकोऽणं प्राप्त इति बोध्यम्।