सूत्रम्
कपिबोधादाङ्गिरसे॥ ४।१।१०७
काशिका-वृत्तिः
कपिबोधादाङ्गिरसे ४।१।१०७
कपिबोधशब्दाभ्याम् आङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। काप्यः। बौध्यः। आङ्गिरसे इति किम्? कापेयः। बौधिः। कपिशब्दो गर्गादिषु पठ्यते। तस्य नियमर्थं वचनम्, आङ्गिरसे यथा स्यात्। लोहितादिकार्यार्थं गणे पाठः। काप्यायनी।
न्यासः
कपिबोधादाङ्गिरसे। , ४।१।१०७
"कापेयः"इति। "इतश्चामिञः"
४।१।१२२ इति ढञक्। यदि कपिशब्दो गर्गादिषु पठ()ते, नियमार्थं त्विह तस्य ग्रहणम्, एवं सत्याङ्गिरसे विध्यर्थमेवास्य ग्रहणमेवास्तु,
नार्थो गर्गादिषु पाठेन? इत्यत आह-- "लोहितादिकार्यार्थश्च" इत्यादि॥
बाल-मनोरमा
कपिबोधादाङ्गिरसे १०९४, ४।१।१०७
कपिबोधादा। गोत्रे यञ्स्यादिति। शेषपूरणमिदं। कपिशब्दाद्बोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ्स्यादित्यर्थः। कापेय इति। अत्र गोत्रस्य अनाङ्गिरसत्वाद्यञभावे "इतश्चानिञः" इति ढक्। बौधिरिति। अत्राप्यनाङ्गिरसत्वाद्यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिञिति भावः। कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम्। तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः। काप्यायनी। बोधशब्दात्तु अप्राप्ते विधिः।
तत्त्व-बोधिनी
कपिबोधादाङ्गिरसे ९१५, ४।१।१०७
कापेय इति। "इतश्चऽनिञः"इति ढक्। कपेर्गर्गादिगणे पाठो लोहितादिकार्यार्थः। तेन कात्यायनीति सिध्यति। बौधिरिति। अनृषित्वादि"ञ्, बाह्वादित्वाद्वा।