पूर्वम्: ३।४।८८
अनन्तरम्: ३।४।९०
सूत्रम्
मेर्निः॥
३।४।८९
काशिका-वृत्तिः
मेर् निः
३।४।८९
लोटः इत्येव। लोडादेशस्य मेः निः आदेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि।
लघु-सिद्धान्त-कौमुदी
मेर्निः
४१९, ३।४।८९
लोटो मेर्निः स्यात्॥
न्यासः
मेर्निः।
, ३।४।८९
"उत्थलोपयोरपवादः" इति। यथाक्रमं "एरुः"
३।४।८६
, "लोटो लङवत्"
३।४।८५
इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि "इतश्च"
३।४।१००
इति विधानादतिदेशेन तस्य प्राप्तिः। "पचानि" इत्यत्र "आडुत्तमस्य पिच्च"
३।४।९२
इत्याट्॥
बाल-मनोरमा
मेर्निः
५२, ३।४।८९
लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते-- मेर्निः। "लोटो लङ्व"दित्यतो इत्यनुवर्तते। तदाह--लोटो मेरिति।