टितः इत्येव। टितो लकारस्य यः थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे।
"पेचिषे" इति।लिट्, "अत एकहल्मध्वेऽनादेशादेर्लिटि"
६।४।१२० इत्येत्वाभ्यासपोपौ। "पक्तासे" इति। लुट्, तासिः, "तासस्त्योर्लोपः"
७।४।५० इति सकारलोपः। "पक्ष्यसे" इति। लृट्, "चोः कुः"
८।२।३० इति कुत्वम्-- ककारः। अथ थकारमात्रस्यैव सकारादेशः कस्मान्न भवति----थः स इति,
थकारस्य सकारे कृते परस्य भागस्य टेरेत्वे सत्यभीष्टं सिध्यत्येव? नैतच्छक्यम्च एवं ह्रार्थाशब्दस्य यस्थकारस्तस्यापि स्यात्।
धात्वधिकाराद्धातोर्यो विहित इति विशेषणान्न भवतीति चेत्? न; असम्भवात्। न हि तथाविधस्तकारो धातोर्विहितः सम्भवति।
अथ धातोरनन्तरस्यैति विशिष्येत? एवमप्यनादित्व एव परस्य स्यात्, नेतरेभ्यो विकरणेभ्यः; व्यवधानादिति यथान्यासमेवास्तु। टेरेत्त्वेनैव सिद्ध एकारान्तत्वे यदेकारान्तत्वामादेशस्य क्रियते, तत् "तिङामादेशानां टेरेत्वं न भवति" इति ज्ञापनार्थम्। तेन डारौरस्प्रभृतिषु टेरेत्वं न भवतीति-- पक्ता, पक्तारौ, पक्तार इति॥
थासः से। "से" इति लुप्तप्रथमाकम्। एधस इति। थासि शपि थासः सेभावः। एधेथे इति। लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः। एधध्व इति। लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम्। लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति-- अतो गुणे इति। "अतो गुणे"इति पररूपे वृद्ध्यपवादे कृते सति "एधे" इति रूपमित्यर्थः। एधावहे इति। लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः। एधमह इति। लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः। महिङिति ङकारस्तङ्प्रत्ययार्थः। इति लट्प्रक्रिया।