सूत्रम्
व्यधजपोरनुपसर्गे॥ ३।३।६१
काशिका-वृत्तिः
व्यधजपोरनुपसर्गे ३।३।६१
व्यध जप इत्येतयोः अनुपसर्गयोः अप् प्रत्ययो भवति। घञो ऽपवादः। व्यधः। जपः। अनुपसर्गे इति किम्? आव्याधा। उपजापः।
न्यासः
व्यधजपोरनुपसर्गे। , ३।३।६१
तत्त्व-बोधिनी
व्यधजपोरनुपसर्गे १५४५, ३।३।६१
उपजापो मन्त्रभेदः। "शब्दे निनादनिनदध्वनिद्वनरवस्वनाः। स्वान" इत्यमरः।