उदङ्क इति निपात्यते अनुदकविषयश्चेद् धात्वर्थो भवति। उत्पूर्वादञ्चतेः घञ् निपात्यते। ननु च हलश्च
३।३।१२१।
इति सिद्ध एव घञ्? उदके प्रतिषेधार्थम् इदं वचनम्। तैलोदङ्कः।
अनुदके इति किम्? उदकोदञ्चनः।
घः कस्मान् न प्रत्युदाह्रियते? विशेषाभावात्। घञ्यपि थाथादिस्वरेन अन्तोदात्त एव।
"ननु च" इत्यादि चोद्यम्। "उदकप्रतिषेधार्थं वचनम्िति परिहारः। यद्येतन्नारभ्येत तदोदकेऽपि पूर्वेण स्यादित्यर्थः। "तैलोदङ्कः"इति। षष्ठीसमासः। षष्ठी पुनः कर्मणि कृद्योगलक्षणा।
"उदकोञ्चनः" इति। करमे ल्युट्। "घः कस्मात्" इत्यादि। एवं मन्यते-- "पुंसि संज्ञायाम्"
३।३।११८ इत्यादिना घे प्राप्ते घञ् विहितः, ततश्च तेन मुक्ते विषये घनैव युक्तं भवितुमिति। "विशेषाभावात्" इति। न ह्रत्राञ्चतेर्घञि घे वा सति विशेषोऽस्ति। तत्र यद्युदकेऽपि घः स्यादनुकप्रतिषेधेनार्थो न स्यादित्यभिप्रायः। ननु च घे सति प्रत्ययस्वरेणान्तोदात्त उदङ्कशब्दो भवति, घञढि सति ञित्स्वरेणाद्युदात्तः स्यात्, तत् किमुच्यते विशेषाभावादित्यत आह-- "घञ्यपि" इत्यादि। "थाथादिस्वरेण" इति। थाथघञ्क्ताजबित्रकाणाम्"
६।२।१४३ इत्येतद्विहितेन॥
उदङ्को। "हलश्चे"त्येव सिद्दे उदकप्रतिषेदार्थमिदम्। उदकोदञ्चन इति। "पुंसि संज्ञाया"मिति घे प्राप्ते घञ्विहितः। उदके तु घञि प्रतिषिद्धे घ एव स्यान्न तु ल्युडिति चेन्मैवम्। प्रतिषेधसामथ्र्याद्धस्याऽप्यप्रवृत्तेः। नहि इह घे घञि वा रूपे विशेषोऽस्ति। नच स्वरे विशेषः, घे सति कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तता, घञ्यपि थाथादिस्वरेण तथैवेति।