इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा। परिचर्यापरिसर्यामृगयाटाट्यानाम् उपसङ्ख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या। जागर्तेरकारो वा। जागरा, जागर्या।
इषर्भावे शप्रत्ययो भवति; अभिधानशक्तिस्वाभाव्यात्, न कारके। "यगभावश्च" इति। "सार्वधातुके यक्"
३।१।६७ इति यक् स्यात्, अतस्तदभावो निपात्यते। "इच्छा" इति। "इषुगमि"
७।३।७७ इत्यादिना छत्वम्।
"परिचर्या" इत्यादि। "चर गत्यर्थः" (धा।पा।५५९), "सृ गतौ" (धा।पा।९६५), "मृग अन्वेषणे" (धा।पा।१९००) चुरादावदन्तः, "अट पट गतौ" (धा।पा।२९५,२९६)--एभ्यो भावे शः, पूर्ववद्यक्, सत्र्तेर्गुणः। मृगयतेरकारलोपाभावः, "णेरनिटि"
६।४।५१ इति णिलोपः। "अटाट()आ" इति। अटतेर्द्विवचनात्त्वञ्चाभ्यासस्य।
"जागत्र्तेरकारो वा" इति। यदा शस्तदा "सार्वधातुके यक्"
३।१।६७, "जाग्रोऽविचिण्णल्ङित्सु"
७।३।८५ इति गुणः। "जागरा" इति यदा त्वकारः॥
इच्छा। इषेर्भाव इति। न त्वकर्तरि कारकेऽपीत्यर्थः। अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम्। यकारनिवृत्तिरिति। हलादिः शेषस्तु नास्ति, षाष्ठाद्वित्वे धातुद्वत्वे वाऽभ्याससंज्ञास्वीकारात्। इह च तदुभयाऽभावादिति भावः। अटाट()एति। यदा तु अटतेर्यङन्तादप्रत्ययादित्यकारस्तदाऽतोलोपे "यस्य हलः" इति यलोपेऽटाटेति रूपं बोध्यम्। द्वित्वे हलादिः शेषे सति "दीर्घोऽकितः इत्यभ्यासस्य दीर्घप्रवृत्तेः। जागर्तेरिति। शे परतः "सार्वधातुके यक्"। "जाग्रोऽविचिण्ण"लिति गुणः।