श्वेतवह उक्थशस् पुरोडाशित्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये। धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम्। प्रत्ययस् तु विधीयत एव। श्वेतशब्दे कर्तृवाचिनि उपपदे वहेर् धातोः करणि कारके ण्विन् प्रत्ययो भवति। श्वेता एनं वहन्ति श्वेतवा इन्द्रः। उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर् धातोः ण्विन् प्रत्ययो भवति, नलोपश्च निपात्यते। उक्थानि शंसति, उक्थैर् वा शंसति, उक्थशा यजमानः। दाशृ दाने इत्येतस्य पुरःपूर्वस्य डत्वम्, कर्मणि च प्रत्ययः। पुरो दाशन्त एनं प्रोडाः। श्वेतवहादीनां डस्पदस्य इति वक्तव्यम्। श्वेतवोभ्याम्। श्वेतवोभिः। पदस्य इति किम्? श्वेतवाहौ। श्वेतवाहः।
"एतेभ्यः" इति। ()ओतव इत्येवमादिभ्यः प्रकृत्युपपदसमुदायेभ्यः। "धातुपपदसमुदाया निपात्यन्ते" इति। ()ओतवा इत्येवादयः। किं पुनः कारणं धातूपपदसमुदाया निपात्यन्ते,
न पुनः पृथगेवोपपदानि धातवश्च निर्दिश्यन्ते? इत्याह-- "अलाक्षणिककार्यसिद्ध्यर्थम्" इति। ()ओतवा इत्येवमादिषु "अवयाः ()ओतवाः पुरोडाश्च" इति रुत्वं निपात्यते। "उक्थशाः"इति। "ससजुषो रुः"
८।२।६६ इतिरुत्वमस्त्येव। "शंसतेः"इति। "{शंसु-धा।पा।} शन्स स्तुतौ" (धा।पा।७२८) इत्यस्य। ण्विनौ नित्करणमाद्युदात्तार्थम्। णित्करणं वृद्ध्यर्थम्। इकारः "वेरपृक्तस्य"
६।१।६५ इति विशेषणार्थः।
"()ओतवाहादीनाम्()" इत्यादि। यदि तर्हीदमुच्यते, नार्थः "अवयाः ()ओतवाः पुरोडाश्च"इत्यनेन वचनेन,
रुत्वार्थेन तस्य दीर्घत्वात्त? ननु च "अत्वसन्तस्य चाधातोः"(६।४।
१४) इति दीर्घत्वं सिद्धमेव? यत्र तर्हि तेन न सिध्यति तदर्थं यथा स्यात्।
क्व पुनस्तेन न सिध्यति? सम्बुद्धौ।
यदि तर्हि तदुच्यते तदा डस् न वक्तव्यः,तेनैव निपातनेन ()ओतवहादीनामसन्तता निपातयिष्यते? नैतदस्ति; सम्बुद्धौ दीर्घत्वं न स्यादित्युक्तम्।
अथासन्तता निपातयिष्यत इति वक्तव्यम्, तथा च सति ()ओतवोभ्यामित्यत्रोत्वं स्यात्।
तस्मात् डस् वक्तव्यः, निपातनमपि कत्र्तव्यम्॥