छन्दसि उपसर्गे सुपि इति अनुवर्तते। जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणम्। तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणम्। जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थः वेरपृक्तस्य
६।१।६५ इति, विषेषणार्थश्च विड्वनोरनुनासिकस्यात्
६।४।४१ इति। जन अब्जाः गोजाः। सन गोषा इन्दो नृषा असि। खन बिसखाः। कूपखाः। क्रम दधिक्राः। गम अग्रेगा उन्नतृ̄णाम्।
"द्वयोरपि ग्रहणम्" इति। विशेषानुपादानात्। "तथा" इत्यादि। यथानन्तरयोर्धात्वोरुभयोग्र्रहणमिति, तथानयोरपि सम्भवक्तार्थयोरित्यर्थः। "टकारः सामान्यग्रहणविघातार्थः"इति। असति टकारे "वेरपृक्तस्य"
६।१।६५ इत्यत्रैकानुबन्धपरिभाषया (व्या।प।५२) अस्यैवं ग्रहणं स्यात्, न विजादीनाम्। टकारे त्वस्यापि द्वयनुबन्धकत्वात् सर्वेषां ग्रहणमुपपद्यते। "विशेषणार्थश्च" इति। "विड्()वनोरनुनासिकस्यात्"
६।४।४१ इत्यत्र विशेषणार्थष्टकारः, "विवनोः" इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्, तथा चाकरोदित्येवमादौ लोपः स्यात्। "अब्जाः" इति। अप्सु जायत इति अब्जाः। एवं "गोजाः"। गां सनोतीति "गोषाः"। "सनोतेरनः"
८।३।१०८ इति षत्वम्। नरं सनोतीति "नृषाः"। विलं खनतीति "विलखाः"। दधि क्रामतीति "दधिक्राः"। अग्रे गच्छतीति "अग्रेगाः"। "तत्पुरुषे कृति बहुलम्"
६।३।१३ इति सप्तम्या अलुक्। सर्वत्र "वेरपृक्तस्य"
६।१।६५ इति लोपः, "विड्()वनोः"
६।४।४१ इत्यात्त्वम्॥