पूर्वम्: ३।२।६२
अनन्तरम्: ३।२।६४
सूत्रम्
छन्दसि सहः॥
३।२।६३
काशिका-वृत्तिः
छन्दसि सहः
३।२।६३
उपसर्गे सुपि इत्येव। छन्दसि विषये सहेर् धातोः सुबन्ते उपपदे ण्विप्रत्ययो भवति। तुराषाट्। सहेः साडः सः
८।३।५६
इति षत्वम्, अन्येषाम् अपि दृश्यते
६।३।१३६
इति दीर्घत्वम्।
न्यासः
छन्दसि सहः।
, ३।२।६३
"जलाषाट्" इति। "हो ढः"
८।२।३१
इति ढत्वम्, तस्य जश्त्वम्-- डकारः,तस्य "वाऽवसाने"
८।४।५५
इति टकारः॥