सोपसर्गार्थ आरम्भः। ददातेः जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्रे इति किम्? गोसन्दायः।
"सोपसर्गार्थं आरम्भः" इति। अनुपसर्गात् "आतोऽनुपसर्गे कः"
३।२।३ इत्येवं सिद्धत्वात्। "ददातेः" इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति वचनात्। "प्रेणोपसृष्टात्" इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे "प्रे" इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। "पथिप्रज्ञः" इति। पन्थानं प्रजानातीत्यर्थः॥