प्रथमावृत्तिः
सूत्रम्॥
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्॥ २।३।३२
पदच्छेदः॥
पृथग्विनानानाभिः ३।३ तृतीया १।१ ३३ अन्यतरस्याम् ० पञ्चमी १।१ २८
काशिका-वृत्तिः
पृथग्विनानानाभिस् तृतीया ऽन्यतरस्याम् २।३।३२
पञ्चमीग्रहणम् अनुवर्तते। पृथक् विना नाना इत्येतैर् योगे तृतीया विभक्तिर् भवति, अन्यतरस्यां पञ्चमी च। पृथग् देवदत्तेन, पृथग् देवदत्तात्। विना देवदत्तेन, विना देवदत्तात्। नाना देवदत्तेन, नाना देवदत्तात्। पृथग्विनानानाभिः इति योगविभागो द्वितीयाऽर्थः। विना वातं विना वर्षं विद्युत्प्रपतनं विना। विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ।
बाल-मनोरमा
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ५९५, २।३।३२
पृथग्विना। पञ्चमीद्वितीये चेति। "तृतीयाऽभावपक्षे" इति शेषः। "अपादाने पञ्चमी" "षष्ठ()तसर्थप्रत्ययेन" "एनपा द्वितीया" "पृथग्विना" इति सूत्रक्रमः। तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते। तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः। ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठ()तसर्थेत्यत्र तदनुवृत्तेरभावात्। अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह--अन्यतरस्याङ्ग्रहणमिति। तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः। ननु पञ्चम्याः "षष्ठ()तसर्थे"त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह--पञ्चमीद्वितीये चानुवर्तेते इति। "मण्डूकप्लुत्ये"ति शेषः। पृथग्रामेणेति। रामप्रतियोगिकभेदवानित्यर्थः। एवं विना नानेति। विना रामेण, रामात्, रामम्,। नाना रामेण, रामात्, रामं वा। पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित्। "पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने" इत्यमरः। रामस्य वर्जने सुखं नास्तीत्यर्थः।
तत्त्व-बोधिनी
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ५३३, २।३।३२
पृथग्विना। ननु तृतीयाऽभावपक्षे "एनपा द्वितीया" इति प्रकृता द्वितीयैव स्यात्। यदि तु द्वितीया विकल्पेन भवेत्, तदा पञ्चम्यपि स्यात्। सा तु नित्यैव। तस्माद्विभक्तित्रयसमवेशो दुरुपपाद इत्यत आह---अन्यतरस्याङ्ग्रहणं समुच्चयार्थमिति। निपातानामनेकार्थत्वादिति भावः। पञ्चमिति। तत्र भण्डूकप्लुत्या पञ्चमी। द्वितीया तु संनिहितैव। इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहुः। "पृथङ्नानाञ्भिस्तृतीयान्यतरस्याम्" इति सुवचम्। नानाञिति प्रत्ययग्रहणे तदन्तयोर्विनानानाशब्दयोर्लाभात्। नानेति। "हिरुङ्नाना च वर्जने" इत्यमरः। "नानानारीं निष्फला लोकयात्रा" इति प्रयोगः।