प्रथमावृत्तिः
सूत्रम्॥
अमैवाव्ययेन॥ २।२।२०
पदच्छेदः॥
अमा ३।१ २१ एव ० २१ अव्ययेन ३।१ २१ उपपदम् १।१ १९ तत्पुरुषः १।१ २।१।२१ सह ० २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२
काशिका-वृत्तिः
अमाएव अव्ययेन २।२।२०
पूर्वन समासे सिद्धे नियमार्थं वचनम्। अव्ययेनौपपदस्य यः समासः सो ऽमा एव भवति, न अन्येन। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारम् भुग्क्ते। लवनङ्कारं भुङ्क्ते।
अमा एव इति किम्? कालसमयवेलासु तुमुन्
३।३।१६७ काले भोक्तुम्। एवकारकरणम् उपपदविशेषनार्थम्। अमा एव यत् तुल्यविधानम् उपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत् तुल्यविह्धानं तस्य मा भूत्। अग्रे भुक्त्वा, अग्रे भोजम्।
न्यासः
अमैवाव्ययेन। , २।२।२०
"स्वादुङ्कारं भुङ्क्ते" इति। "स्वादुभि"
३।४।२६ इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह-- "एवकारककरणम्" इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह-- "अमैव तुल्यविधानम्" इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। "अग्रे भुक्त्वा, अग्रे भोजम्" इति। अत्राग्रेशब्द उपपदम् "विभाषाग्रेप्रथमपूर्वेषु"
२।४।२४ इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥
बाल-मनोरमा
अमैवाव्ययेन ७७३, २।२।२०
अमैवाऽव्ययेन। "अमैवे"त्यनन्तरं तुल्यविधानमित्यध्याहार्यम्। तुल्यार्थैरतुलोपमाभ्या"मिति तृतीया। अमैव तुल्येति। अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत्। पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह--तदेवेति। विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात्। स्वादुङ्कारमिति। स्वादुंकृत्वेत्यर्थः। "ओदनं भुङ्क्ते" इति शेषः। "स्वादुमि णमु"लिति णमुल्। स्वादुशब्दस्य मान्तत्वं निपातनात्। "कृन्मेजन्तः" इत्यव्ययत्वम्। "तदेवे"ति नियमस्य प्रयोजनमाह--नेहेति। "उपपदसमास" इति शेषः। भोक्तुमिति। यद्यपि"कालसमयवेलासु" इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा। अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः। अमैवेति किमिति। अमैवेत्येकारः किमर्थ इति प्रश्नः। अमा चान्येन चेति। अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः।
तत्त्व-बोधिनी
अमैवाव्ययेन ६८२, २।२।२०
अमैवाव्ययेन। पूर्वेण सिद्धे नियमार्थमिदम्। तुल्यविधनमिति। एतच्चाध्याहारे लभ्यम्। तदेवेति। यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः। नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः। स्वादुङ्कारमिति। "स्वादुमि णमुल्"। अव्ययेनेति किम्()। कुम्भकारः। असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत। तथा सति "स्वादुङ्कारः"इत्यत्रैव समासः स्यान्न तु "कुम्भकार"इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात् "अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये"ति। तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः। तदेवेति किम्()। कालो भोक्तुम् समयोभोक्तुम्। "अमैवे"त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम्।