प्रथमावृत्तिः
सूत्रम्॥
क्तेनाहोरात्रावयवाः॥ २।१।४४
पदच्छेदः॥
क्तेन ३। ४६ अहोरात्रावयवाः १।३ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह ० ४ सुपा ३।१ ४ समासः १।१ ३ सुप् १।१ २
काशिका-वृत्तिः
क्तेन अहोरात्रावयवाः २।१।४५
अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहनम् किम्? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि। अहनि भुक्तम्। रात्रौ वृत्तम्। बहुलग्रहणात्। रात्रिवृत्तम्, सन्ध्यगर्जितम् इत्यादयः।
न्यासः
क्तेनाहोरात्रावयवाः। , २।१।४४
"एतत्तु ते दिवावृत्तं रात्रौ वृत्तञ्च द्रक्ष्यसि" इत्यादि। नात्राहरवयवाः रात्र्यवयवाश्च सन्ति, किं तर्हि? कृत्स्नमेवाहः, कृत्स्ना च रात्रिरिति, तेनेह समासो न भवति॥