"ई च ऊ च यू" इति। ननु च "दीर्घाज्जसि च"
६।१।१०१ इति प्रथमयोः पूर्वसवर्णदीर्घत्वे प्रतिषिद्धे यणादेशे सति य्वाविति भवितव्यम्। तत्कथं "यू" इति निर्देश इत्यत आह-- " अविभक्तिकोऽयं निर्देशः" इति। "सुपां सुलुक्"
७।१।३९ इति विभक्तिर्लुप्तत्वात्। नास्माद्विभक्तिर्विद्यत इत्यविभक्तिकः। "स्त्रियमाचक्षाते स्त्र्याख्यौ" इति। ननु च "कर्मण्यण्"
३।२।१ इत्यणि कृते "आतो युक् चिण्कृतोः"
७।३।३३ इति युकि च स्त्र्याख्यायाविति भवितव्यम्,
तत्कथं स्त्र्याख्याविति? "आतोऽनुपसर्गे कः"
३।२।३ इति कप्रत्यये कृत एतद्रूपमिति चेत्, न; चक्षिङोऽत्र सोपसरग्त्वादित्यत आह-- "मुलविभुजादिदर्शनात्" इति। मूलविभुजादिष्वपि कप्रत्यय इष्यते। तथा च वक्ष्यति तृतीयेऽध्याये कप्रकरणे-- "मूलविभुजादिभ्य उपसंख्यानम्" (वा।२३२) इति। तेन "स्त्र्याख्यौ" इति शब्दस्य मूलविभुजादिषु दर्शनात् कप्रत्ययः।
इहेदूतोरेवेयं संज्ञा विधीयते? तदन्तयोर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, कृत्स्त्रियां न स्यात्-- हे लक्ष्मि, हे यवाग्विति; समुदायौ ह्रत्र स्त्र्याख्यौ, न त्वीदूताविति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह -- "ईकारान्तमूकारान्तम्" इत्यादि। ननु च "सुप्तिङन्तं पदम्"
१।४।१४ इत्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न लभ्यते, नैष दोषः; यदयम् "नेयङवङस्थानौ"
१।४।४ इति प्रतिषेधं शास्ति; तज्ज्ञापयति-- भवतीह प्रकरणे तदन्तविधिरिति ; अन्यथा प्रतिषेधोऽनर्थकः स्यात्। न हीकारोकारमात्रं स्त्र्याख्यामियङस्थानमस्ति,
किं तर्हि? तदन्तम्। "कुमारी" इति। "वयसि प्रथमे"
४।१।२० इति ङीष्। "गौरी" इति। "षिद्गौरादिभ्यश्च" (
४।१।४१ इति ङीष्। "शार्ङरवी" इति। "शार्ङरवाद्यञो ङीन्"
४।१।७३। "लक्ष्मीः" इति। "लक्ष दर्शनाङ्कयोः" (धा।पा।१५३८) "अवितृस्तृतन्त्रिभ्य ईः" (द।उ।१।८२) इत्यनुवत्र्तमाने "लक्षेर्मुट् च" (द।उ।१।८४) चकारादीकारश्च। "ब्राहृबन्धूः" इति। "ऊङुतः"
४।१।६६ इत्यूङप्रत्ययः। ङकारः "नोङधात्वोः"
६।१।१६९ इति विशेषणार्थः। "यवागूः" इति। "यू मिश्रणे" (धा।प।#आ१०३३) "सुयूवचिभ्योऽन्युजागूजक्()नुच्" (द।उ।१०।४) इत्यागूच्()प्रत्ययः। रूपोदाहरणान्येतानि।कार्यं तु "अम्बार्थनद्योह्र्यस्वः"
७।३।१०७ इत्येवमादि।
"मात्रे, दुहित्रे" इत्यत्र नदीसंज्ञाया अभावात् "आण् नद्याः"
७।३।११२ इत्याण् न भवति। "ग्रामणीः, खलपूः" इति। पंस्येतौ वत्र्तेते। तेन नतीसंज्ञाया अभावात् "अम्बार्थनद्योह्र्यस्वः"
७।३।१०७ इति ह्यस्वो न भवति। ग्रामं नयतीति "सत्सूद्विष"
३।२।६१ इत्यादिना क्विप्। "अग्रग्रामाभ्याञ्च" (का।वा।५०६४) इति णत्वम्। खलं पुनातीति "अन्यभ्योऽपि दृश्यते"
३।२।१७८ इति क्विप्। "ग्रामण्ये स्त्रियै" इति। "एरनेकाचोऽसंयोगपूर्वस्य"
६।४।८२ इति यणाअदेशः। "खलप्वे स्त्रियै"। अत्रापि ओः सुपि"
६।४।८३ इति। अत्र स्त्रीशब्देन पदान्तरेण स्त्रीत्वं द्योत्यत इति नदीसंज्ञा न भवति, तेनाण्न भवति। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति भवत्येव नदीसंज्ञा-- इष्वै, अशन्या इति। यदि पदान्तरद्योत्ये स्त्रीत्वे नदीसंज्ञा न भवति, इह पट्वै स्त्रिया इति पटुशब्दस्य पुरुषेऽपि दृष्ट्त्वात् पदान्तरद्योत्यमत्र स्त्रीत्वमिति नदीसंज्ञा न स्यात्, नैतदस्ति; पदान्तरं हि दविविधम्- क्वचित्सामान्येन प्रवृत्तिमाशङ्कमानस्य शब्दस्य सामान्यस्याभिधेयान्तरं व्यवच्छिनत्ति, यथा-- गोशब्दस्य गवादिषु गौर्वागिति; क्वचित् प्रवृत्तिमेव करोति , यथा-- वाहीकादौ गौर्वादीक इति। अत्र यत् सामान्यस्य शब्दस्य पट्वादेः पदान्तरसम्बन्धेन विशेषेऽवस्थानं तत् पदेऽन्तर्भूतमेवेत्याख्याग्रहणेन नापनीयते। ग्रामणीशब्दस्य तु स्त्रीत्वप्रवृत्तिः पदान्तरेण क्रियते,न तु व्यवच्छिद्यते। तेनासावाख्याग्रहणेनापसार्यते। एतयोस्तु क्रियाशब्दत्वेन रूढा पुंसिमुख्या वृत्ति। पटुशब्दस्य पाटवोपादयिनः परत्र मुख्येऽपीत्यस्ति भेदः।
यू स्त्र्याख्यौ। ई()आ ऊश्च यू। व्याख्यानाद्दीर्घयोरेव ग्रहणम्। अविभक्तिकोऽयं निर्देश इत्येके। "दीर्घाज्जसि चे"ति निषेधस्य "वा छन्दासी"ति पाक्षिकत्वात् "पर्थमयोः पूर्वसवर्णः"इति दीर्घ इत्यन्ये इह"प्रत्ययस्यैव ग्रहण"मिति परिभाषा नोपतिष्ठते। नेयङुवङ्स्थानावस्त्री" ति निषेधाल्लिङ्गात्। तेन "प्रध्यै""प्रध्य"इत्यादौ नदीकार्यं स्यादेव। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादित्वात्काः। "चक्षिडः ख्याञ्"। "आतो लोप इटि चे"त्यालोपः। ईदुदन्तविति। इह "वर्णयोरेव संज्ञे"त्यपि पक्षोऽस्ति। "आच्छीनद्योः--"इति सूत्रस्वरसात्। तयोः स्त्र्याख्यत्वं तु ङ्यादिषु स्वतः, तन्त्रीर्लक्ष्मिरित्यादौ तु स्त्रीवाचकवर्णसमुदाये घटकत्वेन प्रवेशात्। तेन नद्यन्तादिव्यवहारो न विरुध्यते। एवं "शेषो ध्यसखी"त्यत्रापि "इवर्णोवर्णयोरेव घिसंज्ञे"ति पक्षोऽप्यस्तीति बोध्यम्। तेन "ध्यन्ताजाद्यन्तयोघ्र्यन्तं पर"मिति व्यवहारः सङ्गच्छेते। वर्णसंज्ञापक्षे "असखी"त्यस्य सखिभिन्नस्ययव इत्यर्थो न तु "सकिशब्दावयवं वर्जयित्वे"ति। तेन समुदायस्य सखिशब्दभिन्नत्वादितिसखिनोत्यादि निर्बाधमित्यवधेयम्।
"स्त्रिया"मित्येव वक्तव्ये आख्याग्रहणं नित्यस्त्रीत्वलाभार्थमित्याशयनाह-नित्यस्त्रीलिङ्गाविति
। यू किम्()।, मात्रे। स्त्र्याख्याविति किम्(), ग्रामण्येष पूर्वमिति। वृत्तेः प्रागित्यर्थः। संज्ञायां यथोद्देशपर्वृत्तौ न्यायसिद्धमिदं, कार्यकालपक्षे तु वाचमिकमित्याहुः।