प्रथमावृत्तिः
सूत्रम्॥
अस्मद्युत्तमः॥ १।४।१०६
पदच्छेदः॥
अस्मदि ७।१ उत्तमः १।१ उपपदे ७।१ १०४ समानाधिकरणे ७।१ १०४ स्थानिनि ७।१ १०४ अपि ० १०४
अर्थः॥
अस्मदि उपपदे स्मानाभिधेये सति प्रयुज्यमानेऽपि अप्रयुज्यमानेऽपि उत्तमपुरुषः भवति।
उदाहरणम्॥
अहं पचामि। आवां पचावः। वयं पचामः॥ अप्रयुज्यमानेऽपि -- पचामि, पचावः, पचामः॥
काशिका-वृत्तिः
अस्मद्युत्तमः १।४।१०७
उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि उत्तमपुरुषो भवति। अहम् पचामि। आवाम् पचावः। वयम् पचामः। अप्रयुज्यमाने ऽपि पचामि। पचावः। पचामः।
लघु-सिद्धान्त-कौमुदी
अस्मद्युत्तमः ३८६, १।४।१०६
तथाभूतेऽस्मद्युत्तमः॥
न्यासः
अस्मद्युत्तमः। , १।४।१०६
यदा युष्दस्मदी द्वे अप्येते उपपदे स्तः, तदा कथं भवितव्यम्? यदि कर्त्तृशक्ती आधारप्रतिनियते अपेक्ष्येते, तदाऽऽख्यातमपि पृथगेव प्रयुज्यते-- पचसि पचामि चेति। अथाविरोधाच्छक्तिद्वयेऽपि लकार उत्पद्यते, तदा विप्रतिषेधादुत्तम एव भवति-- त्वञ्चाहञ्च पचाव इति। यद्यपि "त्यदादीनां यद्यत्परं तच्छिष्यते" भवति। आवां पचाव इत्यत्र ह्रस्मच्छब्दस्य युष्मदर्थोऽपि वाच्यः, अन्यथा हि द्विवचनं न स्यात्। न ह्रस्मच्छब्दस्यैव द्वित्वमुपपद्यते॥
बाल-मनोरमा
अस्मद्युत्तमः १४, १।४।१०६
अस्मद्युत्तमः। तथाभूत इति। तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः।
तत्त्व-बोधिनी
अस्मद्युत्तमः १३, १।४।१०६
तथाभूते इति। तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः॥