प्रथमावृत्तिः
सूत्रम्॥
विभाषा विप्रलापे॥ १।३।५०
पदच्छेदः॥
विभाषा १।१ विप्रलापे ७।१ व्यक्तवाचाम् ६।३ ४८ समुच्चारणे ७।१ ४८ वदः ५।१ ४७ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
विभाषा विप्रलापे १।३।५०
वदः इति वर्तते, व्यक्तवाचां समुच्चारणे इति च। विप्रलापात्मके व्यक्तवाचां समुच्चारने वर्तमानाद् वदतेरात्मनेपदं भवति विभाषा। प्राप्तविभाषेयम्। विप्रवदन्ते संवत्सराः, विप्रवदन्ति सांवत्सराः। विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः। युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्ति इत्यर्थः। विप्रलापे इति किम्? संप्रवदन्ते ब्राह्मणाः। व्यक्तवाचाम् इत्येव। विप्रवदन्ति शकुनयः। समुच्चारणे इत्येव। क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति।
न्यासः
विभाषा विप्रलापे। , १।३।५०
"विप्रलापात्मके" इति। परस्परप्रतिबन्धेन विरुद्धः प्रलापो विप्रलापः, स यस्यात्मा स्वभावः स तथोक्तः। "प्राप्तविभाषेयम्" इति। "व्यक्तवाचां समुच्चारणे"
१।३।४८ इत्यस्यानुवृत्तेः।
बाल-मनोरमा
विभाषा विप्रलापे ५४७, १।३।५०
विभाषा विप्रलापे। "व्यक्तवाचां समुच्चारणे" इत्यनुवर्तते। विरुद्धोक्तिर्विप्रलापः। तदाह-- विरुद्धोक्तिरूपे इति।
तत्त्व-बोधिनी
विभाषा विप्रलापे ४५९, १।३।५०
विभाषा विप्रलापे। अप्राप्तविभाषा।