प्रथमावृत्तिः
सूत्रम्॥
अपह्नवे ज्ञः॥ १।३।४४
पदच्छेदः॥
अपह्नवे ७।१ ज्ञः ५।१ ४६ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
अपह्नवे ज्ञः १।३।४४
शेषात् कर्तरि प्रस्मैपदे प्राप्ते जानतेरपह्नवि वर्तमनादात्मनेपदं भवति। अपह्नवो ऽपह्नुतिरपलापः। सोपसर्गश्च अयमपह्नवे वर्तते, न केवलः। शतम् अपजनीते। सहस्रम् अपजानीते। अपलपति इत्यर्थः। अपह्नवे इति किम्? न त्वं किञ्चदपि जानासि।
लघु-सिद्धान्त-कौमुदी
अपह्नवे ज्ञः ७४०, १।३।४४
शतमपजानीते। अपलपतीत्यर्थः॥
न्यासः
अपह्ववे ज्ञः। , १।३।४४
"शतमपजानीते" इति। "ज्ञाजनोर्जा"
७।३।७९ इति जादेशः श्ना, पूर्ववत् "ई हलघोः"
६।४।११३ इतीत्त्वम्॥
बाल-मनोरमा
अपह्नवे ज्ञः ५४१, १।३।४४
अपह्नवे ज्ञः। अपह्नवः = अपलापः। तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः।