प्रथमावृत्तिः
सूत्रम्॥
उपपराभ्याम्॥ १।३।३९
पदच्छेदः॥
उपपराभ्याम् ५।२ वृत्तिसर्गतायनेषु ७।३ ३८ क्रमः ५।१ ३८ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
उपपराभ्याम् १।३।३९
वृत्तिसर्गतायनेषु इति वर्तते। उपपरापूर्वात् क्रमतेर् वृत्त्यादिश्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हि इदम् उच्यते? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, न अन्यपूर्वातिति। उपक्रमते। पराक्रमते। उपपराभ्याम् इति किम्? सङ्क्रामति। वृत्त्यादिष्वित्येव। उपक्रामति। पराक्रामति।
न्यासः
उपपराभ्याम्। , १।३।३९
"संक्रमति" इति। "क्रमः परस्मैपदेषु"
७।३।७६ इति दीर्घः।
बाल-मनोरमा
उपपराभ्याम् ५३५, १।३।३९
उपपराभ्याम्। "वृत्तिसर्गतायनेषु क्रमः" इत्यनुवर्तते। तेनैव सिद्धे नियमार्थमिदं। तदाह-- आभ्यामेव क्रमेरिति। "आत्मनेपद"मिति शेषः।
बाल-मनोरमा
आङ उद्गमने ५३६, १।३।३९
आङ उद्गमने। आङः परस्मादुद्गमनवृत्तेः क्रम आत्मनेपदमित्य्रथः। आक्रमते सूर्य इति। आङ्पूर्वः क्रमिरुद्गमनार्थकः। तदाह-- उदयते इत्यर्थ इति। उपसर्गवशादिति भावः।
बाल-मनोरमा
राधीक्ष्योर्यस्य विप्रश्नः ५६९, १।३।३९
राधीक्ष्योः। यदीय इति। यद्विषयक इत्यर्थः। "विप्रश्न" इत्येतद्व्याचष्टे--विविधः प्रश्न इति। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति। गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः। "राध संसिद्धौ " "ईक्ष दर्शने"। इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, "यस्य विप्रश्न" इति लिङ्गात्। तदाह--शुभाशुभं पर्योलोचयतीत्यर्थ इति। अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा "राधोऽकर्मकादि"ति नियमाच्छ्यन्न स्यात्। एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः। कृष्णस्य संप्रदानत्वं। षष्ठ()पवादः।