उपातिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति। यावद् भुक्तम् उपतिष्ठते। यावदोदनुम् उपतिष्ठते। भुक्तम् इति भावे क्तप्रत्ययः। भोजने भोजने सन्निधीयते इत्यर्थः। अकर्मकातिति किम्? राजानम् उपतिष्ठति।
"अकर्मकात्" इति। नास्य कर्मास्तीति बहुव्रीहिः। "डुकृञ् करणे"(धा।पा।१४७२), "अन्यभ्योऽपि दृश्यन्ते"
३।२।७५ इति मनिन्, धातोर्गुणः, "शेषाद्विभाषा"
५।४।१५४ इति कप्। ननु धातोः क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मकादिति विशेषणम्, व्यवच्छेद्याभावादित्यत आह-- "अकर्मकक्रियावचनात्िति। अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया, तस्या वचनो यः, तां वक्ति सोऽकर्मकक्रियावचनः। एतेनार्थद्वारकं विशेषणमिदं दर्शयति-- अकर्मको यो धात्वर्थस्तसत्साहचर्यादभिधेयधर्मस्याभिधान उपचारात् धातुरकर्मक इति। अर्थस्य च युक्तमेतद्विशेषणम्,तस्य सकर्मकत्वाकर्मकत्वसम्भवात्। "यावद्भुक्तम्" इति। यावच्छब्दो निपातोऽव्ययम्, तस्य यथार्थे वीप्सायामव्ययीभावः, सप्तम्यन्तञ्चैतत्।अत एवाह-- "भोजने भोजने सन्निधीयते" इति। "भावे क्तः" इति।
"नपुंसके भावे क्तः"
३।३।११४ इत्यनेन॥