प्रथमावृत्तिः
सूत्रम्॥
पूङः क्त्वा च॥ १।२।२२
पदच्छेदः॥
पूङः ५।१ क्त्वा १।१ २६ च ० निष्ठा १।१ १९ न ० १८ सेट् १।१ १८ कित् १।१ ५
अर्थः॥
{पूङ् पवने (भ्वा॰ आ॰)} अस्मात् धातोः परः सेट् निष्ठा क्त्वा च कित् न भवति।
उदाहरणम्॥
पवितः, पवितवान्। पवित्वा।
काशिका-वृत्तिः
पूङः क्त्वा च १।२।२२
अन्यतरस्याम् इति न स्वर्यते। उतरसूत्रे पुनर् वा वचनात्। न सेटिति वर्तते। पूडश्च इट् विहितः किल्शः क्त्वानिष्ठयोः
७।२।५०, पूङश्च
७।२।५१ इति। पूडः परो निष्ठाप्रत्ययः इत्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययसय न क्त्वा सेट्
१।२।१८ इति सेद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम्। तथा चौक्तं नित्यम् अकित्त्वम् इडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणम् उत्तरार्थम् इति।
न्यासः
पूङः क्त्वा च , १।२।२२
"न सेट् वत्र्तते" इत्यक्तम्। "न क्त्वा सेट्"
१।२।१८ इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; "श्रयुकः किति"
७।२।११ इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह-- पूङश्चेड् विहितः" इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह-- "क्त्वाप्रत्ययस्य" इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते,
किन्तर्हि? "न क्त्()वा सेट्"
१।२।१८ इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य "न क्त्वा सेट्"
१।२।१८ इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह-- "तथा च " इत्यादि। "पूङ्श्च"
७।२।५१ इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम्-- "नित्यमकित्त्वमिडाद्योः" इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्रत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य "न क्त्वा सेट्"
१।२।१८ इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम्-- "क्त्वाग्रहणमुत्तरार्थम्" इति।
"पूङः" इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; "श्रयुकः किति"
७।२।११ इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥
बाल-मनोरमा
पूङ क्त्वा च ८५८, १।२।२२
पूङः क्त्वा च। "न क्त्वा से"डित्यतो न सेडित्यनुवर्तते। "असंयोगा"दित्यतः किदिति, "निष्ठा शीङित्यतो निष्टेति च। तदाह-- पूङः क्त्वा निष्ठा चेत्यादि। ननु "न क्त्वा से"डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह-- क्त्वाग्रहणमुत्तरार्थमिति। तदेवोपपादयति-- नोपधादित्यत्रेति। तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा। "पूङश्चे"त्येवोक्तौ तु "निष्ठा शी" ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः।
तत्त्व-बोधिनी
पूङः क्त्वा च ७०३, १।२।२२
पूङः क्त्वा च। "न क्त्वा से"डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह--उत्तरार्थमिति। क्त्वैवेति। नतु निष्ठा, चानुकृष्टत्वादिति भावः।