यत् भूत्वा न भवति, तत् अदर्शनम् = अनुपलब्धिः वर्णविनाशः तस्य लोपः इति संज्ञा भवति, अर्थात् प्रसक्तस्य अदर्शनं लोपसंज्ञकं भवति
अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम्। एतैः शब्दैर्यो ऽर्थो ऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति। अर्थस्यैयं संज्ञा, न शब्दस्य। प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति। गोधाया ढ्रक्
४।१।१२९ गौधेरः। पचेरन्। जीवे रदानुक् जीरदानुः। स्त्रिवेर्मनिनास्रेमाणम्। यकारवकारयोरदर्शनम् इह उदाहरणम्। अपरस्य अनुबन्धादेः प्रसक्तस्य। लोपप्रदेशाःलोपो व्योर् वलि
६।१।६४ इत्येवम् आदयः।
"अदर्शनम्" इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत्
किमित्येवमाह-- "अनर्थान्तरम्" इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद्
विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामथ्र्याद् विशेषे शब्दानुपलब्धावेव
वत्र्तेते।
इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य "लोपः" इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह-- "एतैः शब्दैः" इत्यादि।
कथं पुरेतल्लभ्यते? एवं मन्यते-- "नवेति विभाषा"
१।१।४३ इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवत्र्तते। तेन ह्रवधारणं गम्यते, यथा--- "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा-- "तरप्तमपौ घः"
१।१।२१ इत्यत्र। तस्मादिति-
करणानुवृत्तिसामथ्र्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य।
किञ्च "लोपः" महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्,
किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा
संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च "त्रपुजतु" इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति "प्रत्ययलोपे प्रत्यय-
लक्षणम्"
१।१।६१ इति ह्यस्वस्य पिति कृति तुक्"
६।१।६९ इति तुक् प्रसज्यत
इत्यत आह-- "प्रसक्तस्य" इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा?
न किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण
क्विप्प्रसङ्गोऽस्ति,
तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति,
नापि तत् कृतम्? एवं मन्यते-- "स्थानिवत्" इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः-- इति पर्याया ह्रेते। तेनायमर्थो लभ्यते-- प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति।
"गौधेरः" इति। "गोधाया ढ्रक्"
४।१।१२९ एयादेशः, "लोपो व्योर्वलि"
६।१।७३ इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। "पचेरन" इत्यत्रापि सीयुटः शारुओण। एवम-
न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। "जीरदानुः" "आस्त्रेमाणम्" इति। पूर्वपद् वकारस्य लोपः। "स्त्रिवु गतिशोषणयोः" (धा।पा। ११०९) यस्य "सर्वधातुभ्यो मनिन्"
इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते "आरुओमाणम्"
इति। "अपरस्यानुबन्धादेः" इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।
अदर्शनं लोपः। अत्र दृशिज्र्ञानसामान्यवचनः। दर्शनं ज्ञानं। तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते। तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम्। नन्वेवं "लोपो व्योर्वली"त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात्। अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामथ्र्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति। प्रसक्तस्येति। इह "स्थाने" इत्यनुवर्तनादेताल्लभ्यते।
प्रसक्तस्येति किम्? दधि मध्वित्यादौ तुगागमो मा भूत्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक्।