प्रथमावृत्तिः
सूत्रम्॥
ओत्॥ १।१।१५
पदच्छेदः॥
ओत् १।१ १६ निपातः १।१ १४ प्रगृह्यम् १।१ ११
अर्थः॥
ओदन्तः निपातः प्रगृह्यसंज्ञकः भवति।
उदाहरणम्॥
आहो इति, उताहो इति। नो इदानीम्। अथो इति। अहो अधुना।
काशिका-वृत्तिः
ओत् १।१।१५
निपातः इति वर्तते। तस्यौकारेण तदन्तविधिः। ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति। आहो इति। उताहो इति।
लघु-सिद्धान्त-कौमुदी
ओत् ५६, १।१।१५
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
न्यासः
ओत्। , १।१।१५
बाल-मनोरमा
ओत् १०५, १।१।१५
ओत्। "निपात" इत्यनुवर्तते। "ओ"दिति तस्य विशेषणमतस्तदन्तविधिः। "प्रगृह्र"मित्यनुवर्तते, पुँल्लिङ्गतया च विपरिणम्यते, तदाह--ओदन्त इत्यादिना। अहो ईशा इति। अनेकाच्त्वात्पूर्वसूत्रेणाऽप्राप्तौ वचनम्।
तत्त्व-बोधिनी
ओत् ८५, १।१।१५
ओत्। निपात इति किम्?। देवोऽसि, वायवायाहि।