पूर्वम्: ८।४।८
अनन्तरम्: ८।४।१०
 
सूत्रम्
पानं देशे॥ ८।४।९
काशिका-वृत्तिः
पानं देशे ८।४।९

पाननकारस्य पूर्वपदस्थान् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयते इति पानम्। कृत्यल्युटो बहुलम् ३।३।११३ इति कर्मणि ल्युत्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधाने ऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणाः गान्धाराः। देशे इति किम्? दाक्षीणां पानम् दाक्षिपानम्।
न्यासः
पानं देशे। , ८।४।९

"देशाभिधाने" इति। गम्यमान इति शेषः। "क्षीरं पानं येषाम्()" इत।["इति"--नास्ति--प्रांउ।पाठे] कत्र्तरि कृद्योगलक्षणा षष्ठी। "क्षीरपाणा उशीनराः" इति। अतिशयोऽत्र प्रतीयते, न तु क्षीरपानसम्बन्धमात्रम्(); तस्यान्यत्रापि सम्भवात्()। ननु च क्षीरपाणादयः शब्दा मनुष्ये वत्र्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव, तत कथमिह देशाभिधानं गम्यते? नैतदस्ति; उशोनरादिदेशवासिनां तात्स्थ्यात्? तथा प्रतीयमानत्वादुशीनरादिदेशसम्बन्धद्वारेण मनुष्येषूशीनराख्या। उशीनरादयोऽपि शब्दाः संज्ञात्वेन प्राग्देशेष्वेव प्रवृत्ताः। क्रोशन्ति" इत्यत्र मञ्चसम्बन्धद्वारेण मनुष्येष्वपि वत्र्तमाना ये मञ्चशब्दास्तेषां मञ्चाभिदानं गम्यते। यदि तेषां मञ्चाभिधानं न गम्यतेत, तदा मञ्चाधारविशिष्टाः पुरुषाः कथं प्रतीयेरन्()!॥
बाल-मनोरमा
पानं देशे १०३८, ८।४।९

पानं देशे। "पान"मिति षष्ठ()र्थे प्रथमेत्यभिप्रेत्याह--पानस्येति। उशीनरा इति। देशविशेषे बहुवचनान्तोऽयम्। ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह--पीयते इति।

तत्त्व-बोधिनी
पानं देशे ८६९, ८।४।९

क्षीरपाणमिति। पीतिः--पानं। "ल्युट् चे"ति नपुंसके भावे ल्युट्। पीयते अनेनेति पानं। करणे ल्युट्। क्षीरस्य पानं क्षीरपाणम्।

गिरिनद्यादीनां वा। गिरिनद्यादीनां वेति। "वक्तव्य"मिति शेषः। संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते उभयत्र विभाषेत्याहुः।