पूर्वम्: ८।३।८९
अनन्तरम्: ८।३।९१
 
सूत्रम्
सूत्रं प्रतिष्णातम्॥ ८।३।९०
काशिका-वृत्तिः
सूत्रं प्रतिष्णातम् ८।३।९०

प्रतिष्णातम् इति निपात्यते सूत्रं चेद् भवति। प्रतिष्णातम् सूत्रम्। शुद्धम् इत्यर्थः। प्रतिस्नातम् इत्येव अन्यत्र।
न्यासः
सूत्रं प्रतिष्णातम्?। , ८।३।९०

"प्रतिष्णातम्()" इति। पूर्ववत्? षत्वप्रतिषेधे प्राप्ते निपात्यते। "स्नातेः" ८।३।८९ इत्यनुधृत्तौ सत्यां सूत्रे प्रतेरित्युच्यचमाने कामं प्रतिष्णातमिति सिध्यति। तृजादिष्वपि प्राप्नोति; तस्मादतिपरसङ्गनिवृत्त्यर्थ प्रतिष्णातमिति निपातनमाश्रितम्()॥